Digital Sanskrit Buddhist Canon

कुनालावदानं

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kunālāvadānaṁ
कुनालावदानं

यशोऽमात्योपाख्यानं



स इदानीमचिरजातप्रसादो बुद्धाशासने यत्र शाक्यपुत्रीयान् ददर्श, आकीर्णे रहसि वा तत्र शिरसा पादयोर्निपत्य वन्दते स्म।



तस्य च यशो नामामात्यः परमश्राद्धो भगवति। स तं राजानमुवाच।



देव नार्हसि सर्वर्णप्रव्रजितानां प्रणिपातं कर्तुं। सन्ति हि शाक्यश्रामणेरकाश्चतुर्भ्यो वर्णेभ्यः प्रव्रजिता इति। तस्य राजा न किंचिदवोचद्।



अथ स राजा केनचित् कालान्तरेण सर्वसचिवान् उवाच। विविधानां प्राणिनां शिरोभिः कार्यं। तत्त्वममुकस्य प्राणिनः शीर्षमानय त्वममुकस्येति। यशोऽमात्यः पुनराज्ञप्तस्त्वं मानुषं शीर्षमानयेति। समानीतेषु च शीरःस्वभिहिताः। गच्छतेमानि शिरांसि मूल्येन विक्रीणिध्वमिति।



अथ सर्वशिरांसि विक्रीतानि। तदेव मानुषं शिरो न कश्चिज् जग्राह। ततो राज्ञाऽभिहितः। विनापि मूल्येन कस्मैचिद् एतच्छिरो देहिति।



न चास्य कश्चित् प्रतिग्राहको बभूव। ततो यशोऽमात्यस्तस्य शिरसः प्रतिग्राहकमनासाद्य सव्रीडो राजानमुपेत्येदमर्थमुवाच।



गोगर्दभोरभ्रमृगद्विजानां मूल्यैर्गृहीतानि शिरांसि पुम्भिः।

शिरस्त्विदं मानुषमप्रशस्तं न गृह्यते मूल्यमृतेऽपि राजन्॥



अथ स राजा तममात्यमुवाच। किमिदमिति। इदं मानुषशिरो न कश्चिद् गृण्हातीति।



अमात्य उवाच। जुगुप्सितत्वादिति। राजाऽब्रवीत्। किमेतदेव शिरो जुगुप्सितमाहोस्वित् सर्वमानुषशिरांसीति। अमात्य उवाच। सर्वमानुषशिरांसीति।



राजाऽब्रवीत्। किमिदं मदीयमपि शिरो जुगुप्सितमिति। स च भयान्नेच्छति तस्माद् भूतार्थमभिधातुं। स राज्ञाऽभिहितः। अमात्य सत्यमुच्यतामिति। स उवाच। एवमिति।



ततः स राजा तममात्यं प्रतिज्ञायां प्रतिष्ठाप्य प्रत्यादिशन्निममर्थमुवाच। हं भो रूपैश्वर्यजनितमदविस्मित युक्तमिदं भवतः। यस्मात्त्वं भिक्षुचरणप्रणामं मां विच्छन्दयितुमिच्छसि।



विनापि मूल्यैर्विजुगुप्सितत्वात् प्रतिग्रहीता भुवि यस्य नास्ति।

शिरस्तदासाद्य ममेह पुण्यं यद्यर्जितं किं विपरीतमत्र॥

जातिं भवान् पश्यति शाक्यभिक्षुष्वन्तर्गतांस्तेषु गुणान्न चेति।

अतो भवान् जातिमदावलेपादात्मानमन्यांश्च हिनस्ति मोहात्॥

आवाहकालेऽथ विवाहकाले जातेः परीक्षा न तु धर्मकाले।

धर्मक्रियाया हि गुणा निमित्त गुणाश्च जातिं न विचारयन्ति॥

यद्युच्चकुलीनगता दोषा गर्हां प्रयान्ति लोकेऽस्मिन्।

कथमिव नीचजनगता गुणा न सत्कारमर्हन्ति॥

चित्तवशेन हि पुंसां कडेवरं निन्द्यतेऽथ सत्क्रियते।

शाक्यश्रमणमनांसि च शुद्धान्यर्चाम्यतः शाक्यान्॥

यदि गुणपरिवर्जितो द्विजातिः पतित इति प्रथितोऽपि यात्यवज्ञां।

ननु निधनकुलोद्‍गतोऽपि जन्तुः शुभगुणयुक्त इति प्रणम्यपूज्यः॥



अपि च।

किं ते कारुणिकस्य शाक्यवृषभस्यैतद् वचो न श्रुतं

प्राज्ञैः सारमसारकेभ्य इह यन्त्रेभ्यो ग्रहीतुं क्षमं।

तस्यानन्यथवादिनो यदि च तामाज्ञां चिकीर्षाम्यहं

व्याहन्तुं च भवान् यदि प्रयतते नैतत् सुहृल्लक्षणं॥

इक्षुक्षोदवद् उज्झितो भुवि यदा कायो मम स्वप्स्यति

प्रत्युत्थाननमस्कृताऽञ्जलिपुटक्लेशक्रियास्वक्षमः।

कायेनाहमनेन किन्नु कुशलं शक्ष्यामि कर्तुं तदा

तस्मान् न्वर्हमतः श्मशाननिधनात् सारं ग्रहीतुं मया॥

भवनादिव प्रदीप्तान् निमज्जमानादिवाप्सु रत्ननिधेः।

कायाद् विधाननिधनाद् ये सारं नाधिगच्छन्ति॥

ते सारमपश्यन्तः सारासारेष्वकोविदाऽप्राज्ञाः।

ते मरणमकरवदनप्रवेशसमये विषीदन्ति॥

दधिघृतनवनीतक्षीरतक्रोपयोगाद्

वरमपहृतसारो मण्डकुम्भोवभग्नः।

न भवति बहुश्चोच्यं यद्वदेवं शरीरं

सुचरितहृतसारं नैति शोकोऽन्तकाले॥

सुचरितविमुखानां गर्वितानां यदा तु

प्रसभमिह हि मृत्यु कायकुम्भं भिनत्ति।

दहति हृदयमेषां शोकवन्हिस्तदानीं

दधिघत इव भग्ने सर्वशोऽप्राप्तसारे॥

कर्तुं विघ्नमतो न मेऽर्हति भवान् कायप्रणामं प्रति

श्रेष्ठोऽस्मीत्यपरीक्षको हि गणयन् मोहान्धकारावृतः।

कायं यस्तु परीक्षते दशबलव्याहारदीपैर्बुधः

नासौ पार्थिवभृत्ययोर्विस[ष]मतां कायस्य संपश्यति॥

त्वङ्मांसाऽस्थिशिरायाकृत्प्रभृतो भावा हि तुल्या नृणां

आहार्यैस्तु विभूषणैरधिकता कायस्य निष्पाद्यते।

एतत् सारमिहेष्यते तु यदिमं निश्रित्य कायाधमं

प्रत्युत्थाननमस्कृतादि कुशलं प्राज्ञैः समुत्थाप्यते। इति।



राजाशोकोपाख्यानं

अथाशोको राजा हि क्षोदकसिकतापिण्डैरण्डकाष्ठेभ्योऽपि असारतरत्वं कायस्यावेत्य, प्रणामादिभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्, महापृथिवीभ्यः सारतरतामवेक्ष्य भगवतः स्तूपवन्दनायाम् आत्मानमलङ्कर्तुकामोऽमात्यगणपरिवृतः कुक्कुटारामं गत्वा तत्र वृद्धान्ते स्थित्वा कृताञ्जलिर् उवाच।



अस्ति कश्चिदन्योऽपि निर्दिष्टः सर्वदर्शिना।

यथाहं तेन निर्दिष्टं पांशुदानेन धीमता॥



तत्र यशो नाम्ना सङ्घस्थविर उवाच। अस्ति महाराज। यदा भगवतः परिनिर्वाणकालसमयस्तदाऽपलालं नागं दमयित्वा कुम्भकारीं चण्डालीं गोपालीं च नागं च मथुरामनुप्राप्तः।



तत्र भगवानायुष्मन्तमानन्दम् आमन्त्रयत। अस्यामानन्द मथुरायां वर्षशतपरिनिर्वृतस्य तथागतस्य गुप्तो नाम्ना गान्धिको भविष्यति। तस्य पुत्रो भविष्यत्युपगुप्तो नाम्ना अववादकानामग्रः अलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति।



पश्यसिं त्वमानन्द दूरत एव नीलनीलाम्बरराजिं। एवं भदन्त। एष आनन्द उरुमुण्डो नाम पर्वतोऽत्र वर्षशतपरिनिर्वृतस्य तथागतस्य नटभटिका नामारण्यायतनं भविष्यति। एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदुत नटभटिका नामारण्यायतनम्। आह च।



अववादकानां प्रवर उपगुप्तो महायशाः।

व्याकृतो लोकनाथेन बुद्धकार्यं करिष्यति॥



राजाऽह।

किं पुनः स शुद्धसत्त्व उपपन्नः। अथाद्यापि नोत्पद्यत इति। स्थविर उवाच। उत्पन्नः स महात्मा उरुमुण्डे पर्वते जितक्लेशोऽर्हद्‍गणैः परिवृतस्तिष्ठति लोकानुकम्पार्थं। अपि च देव।



सर्वज्ञलीलो हि स शुद्धसत्त्वो धर्मं प्रणीतं वदते गणाग्रे।

देवासुरेन्द्रोरगमानुषांश्च सहस्रशो मोक्षपुरं प्रणेता॥



तेन खलु समयेनायुष्मानुपगुप्तोऽष्टादशभिरर्हत्सहस्रैः परिवृतो नटभटिकारण्यायतने प्रतिवसति। श्रुत्वा च राजाऽमात्यगणान् आहूय कथयति।



संनाह्यतां हस्तिरथाश्वकायः शीघ्रं प्रयास्याम्युरुमुण्डशैलं।

द्रक्ष्यामि सर्वास्रव विप्रमुक्तं साक्षदर्हन्तः ह्युपगुप्तमार्यं॥



ततोऽमात्यैरभिहितः। ...............निवासी स देवस्य स्वयमेवागमिष्यति। ................त्यभिगन्तुं। किन्तु वयमेवार्हामस्तस्याभिगन्तु। अपि ...................।



मन्ये वज्रमयं तस्य देहं शैलोपमाधिकं।

शास्तृतुल्योपगुप्तस्य यो ह्याज्ञामाक्षिपेन् नरः॥



यावद् राज्ञा स्थविरोपगुप्तस्य सकाशं दूतः प्रेषितः स्थविरदर्शनाय आगमिष्यामीति। स्थविरोपगुप्तश्चिन्तयति। यदि राजाऽगमिष्यति महाजनकायस्य पीडा भविष्यति। गोचरस्य च। ततः स्थविरेणाभिहितं। स्वयमेवागमिष्यामीति।



ततो राज्ञा स्थविरोपगुप्तस्यार्थे नौयानेनागमिष्यतीति यावच्च मथुरां यावच्च पाटलिपुत्रमन्तरान् नौसङ्क्रमोऽवस्थापितः। अथ स्थविरोपगुप्तो राज्ञोऽशोकस्य अनुग्रहार्थम् अष्टादशभिरर्हत्सहस्रैः परिवृतो नावमभिरुह्य पाटलिपुत्रमनुप्राप्तः।



ततो राजपुरुषै राज्ञोऽशोकस्य निवेदितं। देव दिष्ट्या वर्धस्व। अनुग्रहार्थं तव सोपगुप्तश्चित्तेश्वरः शासनकर्णधारः पुरस्कृतस्तीर्णभवौघपारैः सार्धं समभ्यागत एष पभ्द्यां।



श्रुत्वा च राज्ञा प्रीतमनसा शतसहस्रमूल्यो मुक्ताहारः स्वशरीरादवनीय प्रियाख्यायिनो दत्तः। घाण्टिकं चाहूय कथयति। घूष्यन्तां पातलिपुत्रे घण्टाः। स्थविरोपगुप्तस्यागमनं निवेद्यतां। वक्तव्यं।



उत्सृज्य दारिद्रमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह।

स्वर्गापवर्गाय च हेतुभूतं स पश्यतां कारुणिकोपगुप्तं॥

येभिर्न दृष्टो द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः।

ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्त्युदारं त्रिभवप्रदीपं॥



यावद्राज्ञा पाटलिपुत्रे घण्टां घोषयित्वा नगरशोभां च कारयित्वा अर्धतृतीयानि योजनानि गत्वा सर्ववाद्येन सर्वपुष्पगन्धमाल्येन सर्वपौरैः सर्वमात्यैः सह स्थविरोपगुप्तं प्रत्युद्‍गतः।



ददर्श राजा स्थविरोपगुप्तं दुरत एव अष्टादशभिरर्हत्सहस्रैरर्धचन्द्रेणोपगुप्तं। यदन्तरं च राजा स्थविरोपगुप्तमद्राक्षीत् तदन्तरं हस्तिस्कन्धाद् अवतीर्य पद्‍भ्यां नदीतिरमभिगम्य एकं पादं नदीतीरे स्थाप्य द्वितीयं नौफलके स्थविरोपगुप्तं सर्वाङ्गेणानुपरिगृह्य नाव उत्तारितवान्। उत्तार्य च मूलनिकृत्त इव द्रुमः सर्वशरीरेणोपगुप्तस्य पादयोर्निपतितो मुखतुण्डकेन च पादावनुपरिमार्ज्य उत्थाय द्वौ जानुमण्डलौ पृथिवीतले निक्षिप्य कृताञ्जलिः स्थविरोपगुप्तं निरीक्षमाण उवाच।



यदा मया शत्रुगणान् निहत्य प्राप्ता समुद्राभरणा सशैला।

एकातपत्रा पृथिवी तदा मे प्रीतिर्न सा या स्थविरं निरीक्ष्य॥

त्वद्दर्शनाम् मे द्विगुणप्रसादः संजायतेऽस्मिन् वरशासनाग्रे।

त्वद्दर्शनाच्चैव परोपि शुद्धो दृष्टो मयाद्य अप्रतिमः स्वयम्भूः॥



अपि च।

शान्तिंगते कारुणिके जिनेन्द्रे त्वं बुद्धकार्यं कुरुषे त्रिलोके।

नष्टे जगन्मोहनमीलिताक्षे त्वमर्कवज् ज्ञानवभासकर्ता॥



त्वं शास्तृकल्पो जगदेकचक्षुरववादकानां प्रवरः शरण्यं।

विभो ममाज्ञां वद शीघ्रमद्य कर्तास्मि वाक्यं तव शुद्धसत्त्व॥



अथ स्थविरोपगुप्तो दक्षिणेन पाणिना राजानं शिरसि परिमार्जयन्नुवाच।



अप्रमादेन संपाद्य राजैश्वर्यं प्रवर्ततां।

दुर्लभत्रीणि रत्नानि नित्यं पूजय पार्थिव॥



अपि च महाराज तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन तव च मम शासनमुपन्यस्तं सत्त्वसारथिवरेण गणमध्ये परीत्तं परिपाल्यं यत्नतोऽस्माभिः। राजाऽह। स्थविर यथाऽहं निर्दिष्टो भगवता तदेवानुष्ठीयते। कुतः।



स्तूपैर्विचित्रैर्गिरिश्रृङ्गकल्पैश्

छत्रध्वजैश्चोच्छ्रितरत्नचित्रैः।

संशोभिता मे पृथिवी समन्ताद्

वैस्तारिका धातुधराः कृताश्च॥



अपि च।

आत्मा पुत्रो गृहं दाराः पृथिवी कोशमेव च।

न किञ्चिदपरित्यक्तं धर्मराजस्य शासने॥



स्थविरोपगुप्त आह। साधु साधु महाराज। एतदेवानुष्ठेयं। कुतः।



ये धर्ममुपजीवन्ति कायैर् भोगैश्च जीवितैः।

गते काले न शोचन्ति इष्टं यान्ति सुरालयं॥



यावद् राजा महता श्रीसमुदयेन स्थविरोपगुप्तं राजकुले प्रवेशयित्वा सर्वाङ्गेणानुपरिगृह्य प्रज्ञप्त एवासने निषादयामास। स्थविरोपगुप्तस्य शरीरं मृदु सुमृदु। तद्यथा तूलपिशुर्वा कर्पासपिशुर्वा।



अथ राजा स्थविरोपगुप्तस्य शरीरसंस्पर्शमवगम्य कृताञ्जलिरुवाच।



मृदूनि तेऽङ्गानि उदारसत्त्व तूलोपमाङ्गं काशिकोपमं च।

अहं त्वधन्यः खरकर्कशाङ्गो निःस्पर्शगात्रः परुषाश्रयश्च॥



स्थविर उवाच।

दानं मनापं सुशुभं प्रणितं दत्तं मया ह्यप्रतिपुद्‍गलस्य।

न पांशुदानं हि मया प्रदत्तं यथा त्वयाऽदायि तथागतस्य॥



राजाह। स्थविर।

बालभावादहं पूर्वं क्षेत्रं प्राप्य ह्यनुत्तरं।

पांशून् रोपितवांस्तत्र फलं यस्येदृशं मम॥



अथ स्थविरो राजानं संहर्षयन्नुवाच। महाराज।

पश्य क्षेत्रस्य माहात्म्यं पांशुर्यत्र विरुह्यते।

राजश्रीर्येन ते प्राप्ता आधिपत्यमनुत्तरं॥



श्रुत्वा च राजा विस्मयोत्फुल्लनेत्रः अमात्यानाहूयोवाच।

बलचक्रवर्तिराज्यं प्राप्तं मे पांशुदानमात्रेण।

केन भगवन् भवन्तो नार्चयितव्यः प्रयत्नेन॥



अथ राजा स्थविरोपगुप्तस्य पादयोर्निपत्योवाच। स्थविरोऽयं मे मनोरथो ये भगवता बुद्धेन प्रदेशा अद्युषितास्तान् अर्चेयं। चिन्हानि च कुर्यां पश्चिमस्यां जनतायामनुग्रहार्थं।



स्थविर उवाच। साधु महाराज शोभनस्ते चित्तोत्पादः। अहं प्रदर्शयिष्याम्यधुना।



बुद्धेनाध्युषिता देशास्तान् नमस्ये कृताञ्जलिः।

गत्वा चिन्हानि तेष्वेव करिष्यामि न संशयः॥



अथ राजा चतुरङ्गबलकायं संनाह्य गन्धमाल्यपुष्पमादाय स्थविरोपगुप्तसहायः संप्रस्थितः। अथ स्थविरोपगुप्तो राजानमशोकं सर्वप्रथमेन लुम्बिनीवनं प्रवेशयित्वा दक्षिणं हस्तमभिप्रसार्योवाच। अस्मिन् महाराज प्रदेशे भगवान् जातः। आह च।



इदं हि प्रथमं चैत्यं बुद्धस्योत्तमचक्षुषः।

जातमात्रेह स मुनिः प्रक्रान्तः सप्तपदं भुवि॥



चतुर्दिशमवलोक्य वाचं भाषितवान् पुरा।

इयं मे पश्चिमा जातिर्गर्भवासश्च पश्चिमः॥



अथ राजा सर्वशरीरेण तत्र पादयोर् निपत्योत्थाय कृताञ्जलिः प्ररुदन्नुवाच।



धन्यास्ते कृतपुण्याश्च यैर्दृष्टः स महामुनिः।

प्रजातः संश्रुता यैश्च वाचस्तस्य मनोरमाः॥



अथ स्थविरो राज्ञः प्रसादबुद्ध्यर्थमुवाच। महाराज किं द्रक्ष्यसि तां देवतां।



यया दृष्टः प्रजायन् स वनेऽस्मिन् वदतां वरः।

क्रममाणः पदान् सप्त श्रुत्वा वाचो यया मुनेः॥



राजाऽह। परं स्थविर द्रक्ष्यामि। अथ स्थविरोपगुप्तो यस्य वृक्षस्य शाखामवलम्बय देवी महामाया प्रसूता तेन दक्षिणहस्तमभिप्रसार्य उवाच।



नैवासिका य इहाशोकवृक्षे सम्बुद्धदर्शिनी या देवकन्या।

साक्षादसौ दर्शयतु स्वदेहं राज्ञो ह्यशोकस्य प्रसादवृद्ध्यै॥



यावत् सा देवता स्वरूपेण स्थविरोपगुप्तसमीपे स्थित्वा कृताञ्जलिरुवाच। स्थविर किमाज्ञापयसि। अथ स्थविरो राजानमशोकमुवाच। महाराज इयं सा देवता ययां दृष्टो भगवाञ् जायमानः। अथ राजा कृताञ्जलिस्तां देवतामुवाच।



दृष्ट्स्त्वया लक्षणभूषिताङ्गः प्रजायमानः कमलायताक्षः।

श्रुतास्त्वया तस्य नरर्षभस्य वाचो मनोज्ञाः प्रथमा वनेऽस्मिन्॥



देवता प्राह।

मया हि दृष्टः कनकावदातः प्रजायमानो द्विपदप्रधानः।

पादानि सप्त क्रममाण एव श्रुताश्च वाचा अपि तस्य शास्तुः॥



राजाऽह। कथय देवते कीदृशी भगवतो जायमानस्य श्रीर्बभूवेति। देवता प्राह। न शक्यं मया वाग्भिः संप्रकाशयितुमपि तु संक्षेपतः श्रृणु।



विनिर्मिताभा कनकावदाता सैन्द्रे त्रिलोके नयनाभिरामा।

ससागरान्ता च मही सशैला महार्णवस्था इव नौश्चचाल॥



यावद्राज्ञा जात्यां शतसहस्रं दत्तं। चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः। अथ स्थविरोपगुप्तो राजानं कपिलवस्तु निवेशयित्वा दक्षिणहस्तमभिप्रसार्योवाच। अस्मिन् प्रदेशे महाराज बोधिसत्त्वो राज्ञः शुद्धोदनस्योपनामितः। तं द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरमसेचनकदर्शनं च दृष्ट्वा राजा सर्वशरीरेण बोधिसत्त्वस्य पदयोर्निपतितः।



इदं महाराज शाक्यवर्धं नाम देवकुलम्। अत्र बोधिसत्त्वो जातमात्र उपनीतो देवमर्चयिष्यतीति। सर्वदेवता च बोधिसत्त्वस्य पादयोर्निपतिता। ततो राज्ञा शुद्धोदनेन बोधिसत्त्वो देवतानामप्ययं देव इति तेन बोधिसत्त्वस्य देवातिदेव इति नामधेयं कृतं। अस्मिन् प्रदेशे महाराज बोधिसत्त्वो ब्राह्मणानां नैमित्तिकानां विपश्चिकानाम् उपदर्शितः। अस्मिन् प्रदेशेऽसितेन ऋषिणा निर्दिष्टो बुद्धो लोके भविष्यतीति।



अस्मिन् प्रदेशे महाराज महाप्रजापत्या संवर्धितः। अस्मिन् प्रदेशे लिपिज्ञानं शिक्षापितः। अस्मिन् प्रदेशे हस्तिग्रीवायामश्वपृष्ठे रथे शरधनुग्रहे तोमरग्रहेऽङकुशग्रहे कुलानुरूपासु विद्यासु पारगः संवृतः। इयं बोधिसत्त्वस्य व्यायामशाला बभूव। अस्मिन् प्रदेशे महाराज बोधिसत्त्वो देवताशतसहस्रैः परिवृतः षष्टिभिः स्त्रीसहस्रैः सार्धं रतिमनुभूतवान्।



अस्मिन् प्रदेशे बोधिसत्त्वो जीर्णातुरमृतसंदर्शनोद्विग्नो वनसंश्रितः। अस्मिन् प्रदेशे जम्बुच्छायायां निषद्य विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनास्रवसदृशं प्रथमध्यानं समापन्नः। अथ परिणते मध्यान्हेऽतिक्रान्ते भक्तकालसमयेऽन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा जम्बुच्छाया बोधिसत्त्वस्य कायं न जहाति। दृष्ट्वा च पुनर् राजा शुद्धोदनः सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतिताः। अनेन द्वारेण बोधिसत्त्वो देवताशतसहस्रैः परिवृतोऽर्धरात्रे कपिलवस्तुनो निर्गतः।



अस्मिन् प्रदेशे बोधिसत्त्वेन छन्दकस्याश्वमाभरणानि च दत्त्वा प्रतिनिवर्तितः। आह च।



छन्दकाभरणान्यश्वश्चास्मिन् प्रतिनिवर्तितः।

निरुपस्थायको वीरः प्रविष्टैकस्तपोवनं॥



अस्मिन् प्रदेशे बोधिसत्त्वो लुब्धकसकाशात् काशिकैर्वस्त्रैः काषायाणि वस्त्राणी ग्रहाय प्रव्रजितः। अस्मिन् प्रदेशे भार्गवेणाऽश्रमेणोपनिमन्त्रितः। अस्मिन् प्रदेशे बोधिसत्त्वो राज्ञा बिम्बिसारेणार्धराज्येनोपनिमन्त्रितः। अस्मिन् प्रदेशे आराडोद्रकमभिगतः। आह च।



उद्रकाऽराडका नाम ऋषयोऽस्मिन् तपोवने।

अधिगतार्यसत्त्वेन पुरुषेन्द्रेण तापिताः॥



अस्मिन् प्रदेशे बोधिसत्त्वेन षड्वर्षाणि दुष्करं चीर्णं। आह च।

षड्वर्षाणि हि कटुकं तपस्तप्त्वा महामुनिः।

नायं मार्गो ह्यभिज्ञाया इति ज्ञात्वा समत्यजत्॥



अस्मिन् प्रदेशे बोधिसत्त्वेन नन्दाया नन्दबलायाश्च ग्रामिकदुहित्रोः सकाशात् षोडशगुणितं मधुपायसं परिभुक्तं।



आह च।

अस्मिन् प्रदेशे नन्दाया भुक्त्वा च मधुपायसं।

बोधिमूलं महावीरो जगाम वदतां वरः॥



अस्मिन् प्रदेशे बोधिसत्त्वः कालिकेन नागराजेन बोधिमूलमभिगच्छन् संस्तुतः।



आह च।

कालिकभुजगेन्द्रेण संस्तुतो वदतां वरः।

प्रयातोऽनेन मार्गेण बोधिमण्डेऽमृतार्थिकः॥



अथ राजा स्थविरस्य पादयोर्निपत्य कृताञ्जलिरुवाच

अपि पश्येम नागेन्द्रं येन दृष्टस्तथागतः।

व्रजानोऽनेन मार्गेण मत्तनागेन्द्रविक्रमः॥



अथ कालिको नागराजः स्थविरसमीपे स्थित्वा कृताञ्जलिरुवाच। स्थविर किमाज्ञापयसीति। अथ स्थविरो राजानमुवाच। अयं स महाराज कालिको नागराजा येन भगवान् अनेन मार्गेण बोधिमूलं निर्गच्छन् संस्तुतः। अथ राजा कृताञ्जलिः कलिकं नागराजमुवाच।



दृष्टस्त्वया ज्वलितकाञ्चनतुल्यवर्णः

शास्ता ममाऽप्रतिसमः शरदेन्दुवक्त्रः।

आख्याहि मे दशबलस्य गुणैकदेशं

तत्कीदृशी वद हि श्रीः सुगते तदानीं॥



कालिक उवाच। न शक्यं वाग्भिः संप्रकाशयितुमपि तु संक्षेपं शृणु।



चरणतलपराहतः सशैलो

ह्यवनितलः प्रचचाल षड्‍विकारं।

रविकिरणविभाधिका नृलोके

सुगतशशिद्युतिरक्षया मनोज्ञा॥



यावद् राजा चैत्यं प्रतिष्ठाप्य प्रक्रान्तः। अथ स्थविरोपगुप्तो राजानं बोधिमूलमुपनामयित्वा दक्षिणं करमभिप्रसार्योवाच। अस्मिन् प्रदेशे महाराज बोधिसत्त्वेन महामैत्रीसहायेन सकलं मारबलं जित्वाऽनुत्तरा सम्यक्‍सम्बोधिरभिसम्बुद्धा। आह च।



इह मुनिवृषभेण बोधिमूले नमुचिबलं विकृतं निरस्तमाशु।

इदममृतमुदारमग्र्यबोधि ह्यधिगतमप्रतिपुद्‍गलेन तेन॥



यावद् राज्ञा बोधौ शतसहस्रं दत्तं। चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः। अथ स्थविरोपगुप्तो राजानमशोकमुवाच। अस्मिन् प्रदेशे भगवान् चतुर्णां महाराजानां सकाशाच् चत्वारि शैलमयानि पात्राणि ग्रहाय एकपात्रमधियुक्तं। अस्मिन् प्रदेशे त्रपुषभल्लिकयोर्वणिजोरपि पिण्डपात्रं प्रतिगृहीतं। अस्मिन् प्रदेशे भगवान् वाराणसीमभिगच्छन् उपगणेनाजीविकेन संस्तुतः। यावत् स्थविरो राजानम् ऋषिपतनम् उपनीय दक्षिणं हस्तमभिप्रसार्योवाच। अस्मिन् प्रदेशे महाराज भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितं। आह च।



शुभं धर्ममयं चक्रं संसारविनिवर्तये।

अस्मिन् प्रदेशे नाथेन प्रवर्तितमनुत्तरं॥



अस्मिन् प्रदेशे जटिलसहस्रं प्रव्राजितं। अस्मिन् प्रदेशे राज्ञो बिम्बिसारस्य धर्मं देशितं। राज्ञा च बिम्बिसारेण सत्यानि दृष्टानि चतुरशीतिभिश्च देवतासहस्रैर् अनेकैश्च मागधकैर् ब्राह्मणगृहपतिसहस्रैः। अस्मिन् प्रदेशे भगवता शक्रस्य देवन्द्रस्य धर्मो देशितः। शक्रेण च सत्यानि दृष्टानि चतुरशीतिभिश्च देवतासहस्रैः। अस्मिन् प्रदेशे महाप्रातिहार्यं विदर्शितं। अस्मिन् प्रदेशे भगवान् देवेषु त्रयास्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः अवतीर्णः। विस्तरेण यावत् स्थविरो राजानमशोकं कुशिनगरीमुपनामयित्वा दक्षिणं करतलमभिप्रसार्योवाच। अस्मिन् प्रदेशे महाराज भगवान् सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। आह च।



लोकं सदेवमनुजासुरयक्षनागमक्षय्यधर्मविनये मतिमान् विनीय।

वैनेयसत्त्वविरहादुपशान्तबुद्धिः शान्तिं गतः परमकारुणिको महर्षिः॥



श्रुत्वा च राजा मूर्च्छितः पतितः। यावज् जलपरिषेकं कृत्वोत्थापितः। अथ राजा कथंचित् संज्ञामुपलभ्य परिनिर्वाणे शतसहस्रं दत्त्वा चैत्यं प्रतिष्ठाप्य पादयोर्निपत्योवाच। स्थविर अयं मे मनोरथो ये च भगवता श्रावका अग्रतायां निर्दिष्टास्तेषां शरीरपूजां करिष्यामीति। स्थविर उवाच। साधु साधु महाराज। शोभनस्ते चित्तोत्पादः। स्थविरो राजानमशोकं जेतवनं प्रवेशयित्वा दक्षिणं करमभिप्रसार्योवाच। अयं महाराज स्थविरशारिपुत्रस्य स्तूपः। क्रियतामस्यार्चनमिति। राजाऽह। के तस्य गुणा बभूवुः। स्थविर उवाच। स हि द्वितीयशास्ता धर्मसेनाधिपतिर्धर्मचक्रप्रवर्तनः प्रज्ञावतामग्रो निर्दिष्टो भगवता।



सर्वलोकस्य या प्रज्ञ स्थापयित्वा तथागतं।

शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशीं॥



आह च।

सद्धर्मचक्रमतुलं यज् जिनेन प्रवर्तितं।

अनुवृत्तं हि तत् तेन शारिपुत्रेण धीमता॥

कस्तस्य साधु बुद्धादन्यः पुरुषः शारद्वतस्येह।

ज्ञात्वा गुणगणनिधिं वक्तुं शक्नोति निरवशेषात्॥



ततो राजा प्रीतमनाः स्थविरशारद्वतीपुत्रस्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच।



शारद्वतीपुत्रमहं भक्त्त्या वन्दे विमुक्तभवसङ्गं।

लोकप्रकाशकिर्तिं ज्ञानवतामुत्तमं वीरं॥



यावत् स्थविरोपगुप्तः स्थविरमहामौद्‍गल्यायनस्य स्तूपमुपदर्शयन्नुवाच। अयं महाराज स्थविरमहामौद्‍गल्यायनस्य स्तूपः। क्रियतामस्यार्चनमिति। रजाऽह। केतस्य गुणा बभूवुरिति। स्थविर उवाच। स हि ऋद्धिमतामग्रो निर्दिष्टो भगवता येन दक्षिणेन पादाङगुष्ठेन शक्रस्य देवेन्द्रस्य वैजयन्तः प्रासादः प्रकम्पितो नन्दोपनन्दौ नागराजानौ विनीतौ। आह च।



शक्रस्य येन भवनं पादाङगुष्ठेन कम्पितं।

पूजनीयः प्रयत्नेन कोलितः स द्विजोत्तमः॥

भुजगेश्वरौ प्रतिभयौ दान्तौ येनातिदुर्दमौ लोके।

कस्तस्य शुद्धबुद्धेः पारं गच्छेद् गुणार्णवस्य॥



यावद् राजा महामौद्‍गल्यायनस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच।



ऋद्धिमतामग्रो यो जन्मजराशोकदुःखनिर्मुक्तः।

मौद्‍गल्यायनं वन्दे मूर्ध्ना प्रणिपत्य विख्यातं॥



यावत् स्थविरोपगुप्तः स्थविरमहाकाश्यपस्य स्तूपम् उपदर्शयन्नुवाच। अयं महाराज स्थविरमहाकाश्यपस्य स्तूपः। क्रियतामस्यार्चनमिति। राजाऽह। के तस्य गुणा बभूवुः। स्थविरोवाच। स हि महात्माऽपेच्छान्नां सन्तुष्टानां धूपगुणवादिनामग्रो निर्दिष्टो भगवता, अर्धासनेनोपनिमन्त्रितः श्वेतचीवरेणाच्छादितो दीनातुरग्राहकः शासनसंधरकश्चेति। आह च।



पुण्यक्षेत्रमुदारं दीनातुरग्राहको निरायासः।

सर्वज्ञचीवरधरः शासनसंधारको मतिमान्॥

कस्तस्य गुरोर्मनुजो वक्तुं शक्तो गुणान् निरवशेषान्।

आसनवरस्य सुमतिर्यस्य जिनो दत्तवानर्धं॥



ततो राजाऽशोकः स्थविरमहाकाश्यपस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच।



पर्वतगुहानिलयमरणं वैरपराङमुखं प्रशमयुक्तं।

सन्तोषगुणविवृद्दं वन्दे खलु काश्यपं स्थविरं॥



यावत् स्थविरोपगुप्तः स्थविरबत्कुलस्य स्तूपं दर्शयन्नुवाच। अयं महाराज स्थविरबत्कुलस्य स्तूपः। क्रियतामर्चनमिति। राजाऽह। केतस्य गुणा बभूवुरिति।



स्थविर उवाच। स महात्माऽल्पबाधानाम् अग्रो निर्दिष्टो भगवता। अपि च न तेन कस्यचिद् द्विपदिका गाथा श्राविता। राजाऽह। दीयतामत्र काकणिः। यावदमात्यैरभिहितः। देव किमर्थं तुल्येष्ववस्थितेष्वत्र काकणी दीयत इति। राजाऽह। श्रूयतामत्राभिप्रायो मम।



आज्ञाप्रदीपेन महोगृहस्थं हृतं तमो यद्यपि तेन कृत्स्नं।

अल्पेच्छभावान्न कृतं हि तेन यथा कृतं सत्त्वहितं तदन्यैः॥



सा प्रत्याहता तस्यैव राज्ञः पादमूले निपतिता। यावद् अमात्या विस्मिता ऊचुः। अहो तस्य महात्मनोऽल्पेच्छता। बभूवानयाप्यनर्थी।



यावत् स्थविरोपगुप्तः स्थविरानन्दस्य स्तूपमुपदर्शयन्नुवाच। अयं स्थविरानन्दस्य स्तूपः। क्रियतामस्यार्चनमिति। राजाऽह। के तस्य गुणा बभूवुरिति। स्थविर उवाच। स हि भगवत उपस्थायको बभूव। बहुश्रुतानामग्र्यो प्रवचनग्राहकश्चेति। आह च।



मुनिपात्ररक्षणपटुः स्मृतिधृतिमतिनिश्चितः श्रुतसमुद्रः।

विस्पष्ट-मधुरवचनः सुरनरमहिंतः सदानन्दः॥

सम्बुद्धचित्तकुशलः सर्वत्र विचक्षणो गुणकरण्डः।

जिनसंस्तुतो जितरणः सुरनरमहितः सदानन्दः॥



यावद् राज्ञा तस्य स्तूपे कोटिर्दत्ता। यावद् अमात्यैरभिहितः। किमर्थमयं देव सर्वेषां सकाशादधिकतरं पूज्यते।



राजाऽह। श्रूयतामभिप्रायः।

यत्तच्छरीरं वदतां वरस्य धर्मात्मनो धर्ममयं विशुद्धं।

तद् धारितं तेन विशोकनाम्ना तस्माद् विशेषेण स पूजनीयः॥

धर्मप्रदीपो ज्वलति प्रजासु क्लेशान्धकारान्तकरो यदद्य।

तत् तत्प्रभावात् सुगतेन्द्रसूनोस्तस्माद् विशेषेण स पूजनीयः॥

यथा सामुद्रं सलिलं समुद्रैर्धार्येत कच्चिन् न हि गोष्पदेन।

नाथेन तद्धर्ममवेक्ष्य भावं सूत्रान्तकोऽयं स्थविरोऽभिषिक्तः॥



अथ राजा स्थविराणां स्तूपार्चनं कृत्वा स्थविरोपगुप्तस्य पादयोर्निपत्य प्रीतिमना उवाच।



मानुष्यं सफलीकृतं ऋतुशतैरिष्टेन यत् प्राप्यते

राज्यैश्वर्यगुणैश्चलैश्च विभवैः सारं गृहीतं परं।

लोकं चैत्यशतैरलङ्कृतमिदं स्वेताभ्रकूटप्रभैः

अस्याद्याप्रतिमस्य शासनकृते किं नो कृतं दुष्करं॥इति॥



यावद् राजा स्थविरोपगुप्तस्य प्रणामं कृत्वा प्रक्रान्तः।



यावद् राज्ञाऽशोकेन जातौ बोधौ धर्कचक्रे परिनिर्वाणे एकैकशतसहस्रं दत्तं। तस्य बोधौ विशेषतः प्रसादो जात इह भगवताऽनुत्तरा सम्यक्‍सम्बोधिरभिसम्बुद्धेति। स यानि विशेषयुक्तानि रत्नानि तानि बोधिं प्रेषयति।



अथ राज्ञोऽशोकस्य तिष्यरक्षिता नामाग्रमहिषी। तस्या बुद्धिरुत्पन्ना। अयं राजा मया सार्धं रतिमनुभवति विशेषयुक्तानि च रत्नानि बोधौ प्रेषयति। तया मातङ्गी व्याहरिता। शक्यसि त्वं बोधिं मम सपत्नीं प्रघातयितुं। तयाऽभिहितं। शक्ष्यामि किन्तु कार्षापणान् देहीति।



यावन् मातङ्ग्या बोधिवृक्षो मन्त्रैः परिजप्तः सूत्रं च बद्धं। यावद् बोधिवृक्षः शोष्टुमारब्धः। ततो राजपुरुषै राज्ञे निवेदितं। देव बोधिवृक्ष शुष्यत इति। आह च।



यत्रोपविष्टेन तथागतेन कृत्स्नं जगब्दुद्धमिदं यथावद्।

सर्वज्ञता चाधिगता नरेन्द्र बोधिद्रुमोऽसौ निधनं प्रयाति॥



श्रुत्वा च राजा मुर्च्छितो भूमौ पतितः। यावज् जलसेकं दत्त्वा उत्थापितः। अथ राजा कथंचित् संज्ञामुपलभ्य प्ररुदन्नुवाच।



दृष्ट्वा न्वहं तं द्रुमराजमूलं जानामि दृष्टोऽद्य मया स्वयम्भूः।

नाथद्रूमे चैव गते प्रणाशं प्राणाः प्रयास्यन्ति ममापि नाशं।



अथ तिष्यरक्षिता राजानं शोकार्तमवेक्ष्योवाच। देव, यदि बोधिर्न भविष्यत्यहं देवस्य रतिमुत्पादयिष्यामि। राजाऽह। न सा स्त्री अपि तु बोधिवृक्षः। स यत्र भगवताऽनुत्तरा सम्यक्‍सम्बोधिरधिगत। तिष्यरक्षिता मातङ्गीमुवाच। शक्यसि त्वं बोधिवृक्षं यथापौराणमवस्थापयितुं। मातङ्गी आह। यदि तावत् प्राणणुकमवशिष्टं भविष्यति, यथापौराणमवस्थापयिष्यामीति।



विस्तरेण यावत् तया सूत्रं मुक्त्वा वृक्षं सामन्तेन खनित्वा दिवसे क्षीरकुम्भसहस्रेण पाययति। यावदल्पैरहोभिर्यथापौराणः संवृत्तः। ततो राजपुरुषै राज्ञे निवेदितं। देव, दिष्ट्या वर्धस्व। यथापौराणः संवृत्तः। श्रुत्वा च प्रीतिमना बोधिवृक्षं निरीक्षमाण उवाच।



बिम्बिसारप्रभृतिभिः पार्थिवेन्द्रैर् द्युतिन्धरैः।

न कृतं तत् करिष्यामि सत्कारद्वयमुत्तमं॥

बोधिं च स्नापयिष्यामि कुम्भैर्गन्धोदकाकुलैः।

सङ्घस्य च करिष्यामि सत्कारं पञ्चवार्षिकः॥



अथ राजा सौवर्णरूप्यवैडूर्यस्फटिकमयानां कुम्भानां सहस्रं गन्धोदकेन पूरयित्वा प्रभूतं चान्नपानं समुदानीय गन्धमाल्यपुष्पसञ्चयं कृत्वा स्नात्वाऽहतानि वासांसि नवानि दीर्घदशानि प्रावृत्याष्टाङ्गसमन्वागतमुपवासमुपोष्य धूपकटच्छुकमादाय शरणतलमभिरुह्य चतुर्दिशमायाचितुमारब्धः। ये भगवतो बुद्धस्य श्रावकास्ते ममानुग्रहायागच्छन्तु।



अपि च।

सम्यग्गता ये सुगतस्य शिष्याः शान्तेन्द्रिया निर्जितकामदोषाः।

सम्माननार्हा नरदेवपूजिता अयान्तु तेऽस्मिन्ननुकम्पया मम॥

प्रशमदमरता विमुक्तसङ्गाः प्रवरसुताः सुगतस्य धर्मराजाः।

असुरसुरनरार्चितार्यवृत्तास्त्विह मदनुग्रहणात् समभ्युपेयुः॥

वसन्ति काश्मीरपुरे सुरम्ये ये चापि धीरास्तमसोवनेऽस्मिन्।

महावने रेवतके य आर्या अनुग्रहार्थं मम तेऽभ्युपेयुः॥

अनवतप्तह्रदे निवसन्ति ये गिरिनदीषु च पर्वतकन्दरेः।

जिनसुताः खलु ध्यानरताः सदा समुदयन्त्विह तेऽद्य कृपाबलाः॥

शरीषके ये प्रवरे विमाने वसन्ति पुत्रा वदतां वरस्य।

अनुग्रहार्थं मम ते विशोका ह्यायान्तु कारुण्यनिविष्टभावाः॥

गन्धमादनशैले च ये वसन्ति महौजसः।

इहायान्तु हि कारुण्युमुत्पाद्योपनिमन्त्रिताः॥



एवमुक्ते च राज्ञि त्रीणि शतसहस्राणि भिक्षूणां संनिपतितानि। तत्रैकं शतसहस्रमर्हतां द्वे शैक्षाणां पृथग्‍जनकल्याणकानां च। न कश्चिद् वृद्धासनमाक्रम्यते स्म। राजाऽह। किमर्थं वृद्धासनं तन् नाक्रम्यते। तत्र यशो नाम्ना वृद्धः षडभिज्ञः। स उवाच। महाराज वृद्धस्य तदासनमिति। राजाऽह। अस्ति स्थविर त्वत्सकाशादन्यो वृद्धतर इति। स्थविर उवाच। अस्ति महाराज। वदतां वरेण वशिना निर्दिष्टः सिंहनादिनामग्र्यः। पिण्डोलभरद्वाजस्यैतद् अग्रासनं नृपते।



अथ राजा कदम्बपुष्पवदाहृष्टरोमकूपः कथयति। अस्ति कश्चिद् बुद्धदर्शी भिक्षुर्घ्रियत इति।



स्थविर उवाच। अस्ति महारज पिण्डोलभरद्वाजो नाम्ना बुद्धदर्शी तिष्ठत इति।



राजा कथयति। स्थविर, शक्यः सोऽस्माभिर्दृष्टिमिति। स्थविर उवाच। महाराज इदानीं द्रक्ष्यसि। अयं तस्य आगमनकाल इति। अथ राजा प्रीतिमाना उवाच।



लाभः परः स्याद् अतुलो ममेह महासुखश्चायमनुत्तमश्च।

पश्याम्यहं यत्तमुदारसत्त्वं साक्षाद् भरद्वाजसगोत्रनाम॥



ततो राजा कृतकरपुटो गगनतलावसक्तदृष्टिरवस्थितः। अथ स्थविरपिण्डोलभरद्वाजोऽनेकैरर्हत्सहस्रैरर्धचन्द्राकारेणोपगूढो राजहंस इव गगनतलादवतीर्य वृद्धान्ते निषसाद्। स्थविरपिण्डोलभरद्वाजं दृष्ट्वा तान्यनेकानि भिक्षुशतसहस्राणि प्रत्युपस्थितानि।



अद्राक्षीद् राजा पिण्डोलभरद्वाजं श्वेतपलितशिरसं प्रलम्बुभ्रूललाटं निगूढाक्षितारकं प्रत्येकबुद्धाश्रयं। दृष्ट्वा च राजा मूलनिकृत्त इव द्रुमः सर्वशरीरेण स्थविरपिण्डोलभरद्वाजस्य पादयोः पतितः। मुखतुण्डकेन च पादावनुपरिमार्ज्योत्थाय तौ जानुमण्डलौ पृथिवीतले प्रतिष्ठाप्य कृताञ्जलिः स्थविरपीण्डोलभरद्वाजं निरीक्षमाणः प्ररुदन्नुवाच।



यदा मया शत्रुगणान् निहत्य प्राप्ता समुद्राभरणा सशैला।

एकातपत्रा पृथिवी तदा मे प्रीतीर्न सा या स्थविरं निरीक्ष्य॥



त्वद्दर्शनाद् भवति दृष्टोऽद्य तथागतः। करुणालाभात् त्वद्दर्शनाच्च द्विगुणप्रसादो ममोत्पन्नः। अपि च स्थविर दृष्टस्ते त्रैलोक्यनाथो गुरुर्मे भगवान् बुद्ध इति। ततः स्थविरपिण्डोलभरद्वाज उभाभ्यां पाणिभ्यां भ्रुवमुन्नाम्य राजानमशोकं निरीक्षमाण उवाच।



दृष्टो मया ह्यसकृदप्रतिमो महर्षिः।

सन्तप्तकाञ्चनसमोपमतुल्यतेजः।

द्वात्रिंशलक्षणधरः शरदिन्दुवक्त्रो

ब्राह्मस्वराधिकरणो ह्यरणाविहारी॥



राजाऽह। स्थविर कुत्र ते भगवान् दृष्टः कथं चेति। स्थविर उवाच। यदा महाराज भगवान् विजितमारपरिवारः पञ्चभिरर्हच्छतैः सार्धं प्रथमतो राजगृहे वर्षामुषितोऽहं तत्कालं तत्रैवासम्। मया स दक्षिणीयः सम्यग् दृष्ट इति। आह च।



वीतरागैः परिवृतो वीतरागो महामुनिः।

यदा राजगृहे वर्षा उषितः स तथागतः॥

तत्कालमासं तत्राहं सुबुद्धस्य तदन्तिके।

यथ पश्यसि मां साक्षादेवं दृष्टो मया मुनिः॥



यदापि महाराज भगवता श्रावस्त्यां तीर्थ्यान् विजयार्थं महाप्रातिहार्य कृतं बुद्धावतंसकं यावदकनिष्ठभवनं निर्मितं महत् तत्कालं तत्रैवाहमासम्। मया तद् बुद्धविक्रीडितं दुष्तमिति।



आह च।

तीर्थ्या यदा भगवता कुपथप्रयाता

ऋद्धिप्रभावविधिना खलु निर्गृहीताः।

विक्रीडीतं दशबलस्य तदा ह्युदारं

दृष्टं मया तु नृप हर्षकरं प्रजानां॥



यदापि महाराज भगवता देवेषु त्रयस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः सांकाश्ये नगरेऽवतीर्णोऽहं तत्कालं तत्रैवासम्। मया सा देवमनुष्यसंपदा दृष्टा उत्पलवर्णया च निर्मिता चक्रवर्तिसंपदा इति।



यदावतीर्णो वदतां वरिष्ठो वर्षामुषित्वा खलु देवलोके।

तत्राप्यहं सन्निहितो बभूव दृष्टो मयाऽसौ मुनिरग्रसत्त्वः॥



यदा महाराज सुमागधया अनाथपिण्डदुहित्रा उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्धमृद्ध्या पुण्डवर्धनं गतस्तदाहं ऋद्ध्या पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्डवर्धनं गतः। त्वन्निमित्तं च मे भगवताऽज्ञा क्षिप्ता। न तावत्ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति। आह च।



यदा जगामर्द्धिबलेन नायकः सुमागधायोपनिमन्त्रितो गुरुः।

तदा गृहीत्वर्द्धिबलेन पर्वतं जगाम तूर्णं खलु पुण्डवर्धनं॥

आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन।

तावन्नते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः॥



यदापि महाराज त्वया पूर्वं बालभावाद् भगवतो राजगृहं पिण्डाय प्रविष्टस्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तो राधगुप्तेन चानुमोदितं त्वं च भगवता निर्दिष्टोऽयं दारको वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा यो मे शरीरधातुकं वैस्तारिकं करिष्यति चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यत्यहं तत्कालं तत्रैवासम्। आह च।



यदा पांश्वञ्जलिर्दस्त्वया बुद्धस्य भाजने।

बालभावात् प्रसादित्वा तत्रैवाहं तदाऽभवम्॥



राजाऽह। स्थविर। कुत्रेदानीमुष्यत इति। स्थविर उवाच।

उत्तरे सरराजस्य पर्वते गन्धमादने।

वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः॥



राजाऽह। कियन्तः स्थविरस्य परिवाराः। स्थविर उवाच।

षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर।

वसामि यैरहं सार्धं निष्पृहैर्जितकल्मषैः॥



अपि च महाराज किमनेन सन्देहेन कृतेन। परिविष्यतां भिक्षुसङ्घः। भुक्तवतो भिक्षुसङ्घस्य प्रतिसंमोदनं करिष्यामि। राजाऽह। एवमस्तु यथा स्थविर आज्ञापयति। किन्तु बुद्धस्मृतिप्रतिबोधितोऽहं बोधिस्नपनं तावत् करिष्यामि। समनन्तरं च मनापेन चाहारेण भिक्षुसङ्घमुपस्थास्यामीति।



अथ राजा सर्वमित्रम् उद्‍घोषकमामन्त्रयति। अहम् आर्यसङ्घस्य शतसहस्रं दास्यामि। कुम्भसहस्रेण च बोधिं स्नापयिष्यामि। मम नाम्ना घुष्यतां पञ्चवार्षिकमिति।



तत्कालं च कुनालस्य नयनद्वयमविपन्नमासीत्। स राज्ञो दक्षिणे पार्श्वे स्थितः। तेनांगुलिद्वयमुत्क्षिप्तं न तु वाग् भाषिता। द्विगुणं त्वहं प्रदास्यामीत्याकारयति। पाणौ वर्धितमात्रे च कुनालेन सर्वजनकायेन हास्यं मुक्तं।



ततो राजा हास्यं मुक्त्वा कथयति। अहो राधगुप्त केनैतद् वर्धितमिति।



राधगुप्तः कथयति। देव बहवः पुण्यार्थिनः प्राणिनो यः पुण्यार्थी तेन वर्धितमिति।



राजाऽह। शतसहस्रत्रयं दास्यामीत्यार्यसङ्घे। कुम्भसहस्रेण च बोधिं स्नपयिष्यामि। मम नाम्ना घुष्यतां पञ्चवार्षिकमिति।



यावत् कुनालेन चतस्रोऽङगुलय उत्क्षिप्ता। ततो राजा रूषितो राधगुप्तमुवाच। अहो राधगुप्त कोऽयमस्माभिः सार्धं प्रतिद्वन्द्वयति अलोकज्ञः।



रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच। देव कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत्। कुनालो गुणवान् पित्रा सार्धं विकुरुते। अथ राजा दक्षिणेन परिवृत्य कुनालमवलोक्योवाच। स्थविर अहं कोशं स्थापयित्वा राज्यमन्तःपुरममात्यगणमात्मानं च कुनालं चार्यसङ्घे निर्यातयामि। सुवर्णरूप्यस्फटिकवैडूर्यमयैः पञ्चकुम्भसहस्रैर्नानागन्धपूर्णैः क्षीरचन्दनकुंकुमकर्पूरवासितैर्महाबोधिं स्नपयिष्यामि। पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसङ्घे ददामि। मम नाम्ना घुष्यतां पञ्चवार्षिकमिति। आह च।



राज्यं समृद्धं हि संस्थाप्य कोशमन्तः पुरामात्यगणं च सर्वं।

ददामि सङ्घे गुणपात्रभूते आत्माकुनालं च गुणोपपन्नं॥



ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसङ्घे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्‍वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रै र्बोधिस्नपनं कृतवान्। कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः। वक्ष्यति हि।



कृतमात्रे नृपतिना बोधिस्नपनमुत्तमं।

बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः॥

दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलं।

राजा हर्षपरं यातः सामात्यगणनैगमः॥



अथ राजा बोधिस्नपनं कृत्वा भिक्षुसङ्घं परिवेष्टुमारब्धः। तत्र यशो नाम्ना स्थविरः। तेनाभिहितं। महाराज महानयं परमदक्षिणीय आर्यसङ्घः संनिपतितः। तथा ते परिवेष्टव्यं यथा तेन क्षतिर्न स्यादिति।



ततो राजा स्वहस्तेन परिवेषयन् यावन् नवकान्तं गतः। तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः। एकेनापि सक्तवो दत्ता द्वितीयेनापि सक्तवः। एकेन खाद्यका द्वितीयेनापि खाद्यका एव। एकेन मोदका द्वितीयेनापि मोदकाः। तौ दृष्ट्वा राजा हसितः। इमौ श्रामणेरौ बालक्रीडया क्रीडतः।



यावद् राज्ञा भिक्षुसङ्घं परिवेष्य वृद्धान्तमारूढः। स्थविरेण चानुयुक्तः। मा देवेन कुत्रचिद् अप्रसाद उत्पादित इति।



राजाऽह। नेति। अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडयो यथा बालदारकाः पांश्वागारैः क्रीडन्त्येवं तौ श्रामणेरौ सक्तुक्रीडया क्रीडतः खाद्यक्रीडया क्रीडतः।



स्थविर उवाच। अलं महाराज। उभौ हि तौ उभयतो भागविमुक्तौ अर्हन्तौ।



श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना। तौ श्रमणेरावागम्य भिक्षुसङ्घं पटेनाच्छादयिष्यामि। ततस्तौ श्रामणेरौ राज्ञोऽभिप्रायमवगम्य भूयोऽन्येऽस्माभिः स्वगुणा उभ्दावयितव्या इति [चिन्तितौ]। तयोरेकेन कटाहका उपस्थापिता द्वितीयेन रङ्गः समुदानीतः।



राज्ञा पृष्टौ श्रामणेरकौ। किमिदमारब्धं। तयोरभिहितं। देवोऽस्माकमागम्य भिक्षुसङ्घं पटेनाच्छादितुकामः। तान् पटान् रञ्जयिष्यामः।



श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना। मया केवलं चिन्तितं न तु वाङ निश्चारिता। परचित्तविदावेतौ महात्मानौ। ततः सर्वशरीरेण पादयोर्निपत्यं कृताञ्जलिरुवाच।



मौर्यः सभृत्यः सजनः सपौरः

सुलब्धलाभार्थसुयष्टयज्ञः।

यस्येदृशः साधुजन प्रसादः

काले तथोत्साहि करोति दानं॥



यावद् राज्ञाऽभिहितं। युष्माकमागम्य त्रिचीवरेण भिक्षुसङ्घमाच्छादयिष्यामीति। ततो राजाऽशोकः पञ्चवार्षिके पर्यवसिते सर्वभिक्षून् त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि सङ्घास्याच्छादनानि दत्त्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुनालं च निष्क्रीतवान्। भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा। चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्। इति।
कुनालोपाख्यानं



यस्मिन्नेव दिवसे राज्ञाऽशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं तस्मिन्नेव दिवसे राज्ञोऽशोकस्य पद्मावती नाम्ना देवी प्रसूता। पुत्रो जातः अभिरूपो दर्शनीयः प्रासादिको नयनानि चास्य परशोभनानि।



यावद् राज्ञोऽशोकस्य निवेदितं। देव दिष्ट्या वृद्धिर्देवस्य पुत्रो जातः। श्रुत्वा राजा आत्तमनाः कथयति।



प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः।

धर्मेण राज्यं मम कुर्वतो हि जातः सुतो धर्मविवर्धनोऽस्तु॥

तस्य धर्मविवर्धन इति नाम कृतं।

यावत् कुमारो राज्ञोऽशोकस्योपनामितः। अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति।



सुतस्य मे नेत्रवरा सुपुण्या सुजातनीलोत्पलसंनिकाशा।

अलङ्कतं शोभति यस्य वक्‍त्रं सम्पूर्णचन्द्रप्रतिमं विभाति॥



यावद् राजाऽमात्यान् उवाच। दृष्टानि भवभ्दिः कस्येदृशानि नयनानि। अमात्या ऊचुः। देव मनुष्यभूतस्य न दृष्टानि। अपि तु देव, अस्ति हिमवति पर्वतराजे कुनालो नाम पक्षी प्रतिवसति। तस्य सदृशानि नयनानि। आह च।



हिमेन्द्रराजे गिरिशैलशृङ्गे प्रबालपुष्पप्रसवे जलाढ्ये।

कुनालनाम्नेति निवासि पक्षी नेत्राणि तेनास्य समान्यमूनि॥

ततो राज्ञाऽभिहितं। कुनालः पक्षी आनीयतामिति।



तस्योर्ध्वतो योजनं यक्षाः श्रृण्वन्ति। अधो योजनं नागाः। ततो यक्षिस्तत्क्षणेन कुनालः पक्षी आनीतः। अथ राजा कुनालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद् विशेषं पश्यति। ततो राज्ञाऽभिहितं। कुमारस्य कुनालसदृशानि नयनानि। भवतु कुमारस्य कुनाल इति नाम। वक्ष्यति हि।





नेत्रानुरागेण स पार्थिवेन्द्रः सुतं कुनालेति तदा बभाषे।

ततोऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य॥



विस्तरेण यावत् कुमारो महान् संवृत्तः। तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता।



यावद् राजाऽशोकः कुनालेन सह कुक्कुटारामं गतः। तत्र यशो नाम्ना सङ्घस्थविरः अर्हन् षडभिज्ञः। स पश्यति कुनालस्य न चिरान् नयनविनाशो भविष्यति।



तेन राजाऽभिहितः। किमर्थं कुनालः स्वकर्मणि न नियुज्यते। ततो राज्ञाऽभिहितः। कुनाल सङ्घस्थविरो यदाज्ञापयति तत् परिपालयितव्यं। ततः कुनालः स्थविरस्य पादयोर्निपत्य कथयति। स्थविर किमाज्ञापयसि। स्थविर उवाच। चक्षुःकुनाल अनित्यमिति कुरु। आह।



कुमार चक्षुः सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तं।

यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि॥



स च तथाऽभ्यासं करोति मनसिकारप्रयुक्तः। एकाभिरामः प्रशमारामश्च संवृत्तः। स राजकुले विविक्ते स्थानेऽवस्थितस् चक्षुरादीन्यायतनानि अनित्यादिभिर् आकारैः परीक्षते।



तिष्यरक्षिता च नाम्नाऽशोकस्याग्रमहिषी तं प्रदेशमभिगता। सा तं कुनालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति।



दृष्ट्वा तवेदं नयनाभिरामं श्रीमद् वपुर्नेत्रयुगं च कान्तं।

दंदह्यते मे हृदयं समन्ताद् दावाग्निना प्रज्वलते च कक्षः॥

श्रुत्वा कुनाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति।



वाक्यं न युक्तं तव वक्‍त्तुमेतत्

सूनोः पुरस्ताज् जननी ममासि।

अधर्ममार्गं परिवर्जयस्व

अपायमार्गस्य स एव हेतुः॥



ततस्तिष्यरक्षिता तत्कालमलभमाना ऋद्धा कथयति।

अभिकामामभिगतां यत्त्वं नेच्छसि मामिह।

न चिरादेव दुर्बुद्धे सर्वथा न भविष्यसि॥



कुनाल उवाच।

मम भवतु मरणं मात स्थितस्य धर्मे विशुद्धभावस्य।

न तु जीवितेन कार्यं सज्जनजनधिक्कृतेन मम॥

स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन।

मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन॥



यावत् तिष्यरक्षिता कुनालस्य छिद्रान्वेषिणि अवस्थिता।



राज्ञोऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धं। श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः। ततोऽमात्यैरभिहितः। देव कुमारः प्रेष्यतां।



अथ राजा कुनालमाहूय कथयति। वत्स कुनाल गमिष्यसि तक्षशिलानगरं संनामयितुं।



कुनाल उवाच। परं देव गमिष्यामि।

ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्य मनोरथस्य।

स्नेहाच्च योग्यं मनसा च बुद्द्वा आज्ञापयामास विहारयात्रां॥



अथ राजाऽशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणांश्च मार्गादपनीय एकरथेऽभिरुह्य कुमारेण सह पाटलिपुत्रान् निर्गतः। अनुव्रजित्वा निवर्तमानः कुनालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच।



धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः।

सततं ये कुमारस्य द्रक्ष्यन्ति दुखपङ्कजं॥



यावन् नैमित्तिको ब्राह्मणः पश्यति कुमारस्य न चिरान् नयनविनाशो भविष्यति। स च राजाऽशोकस्तस्य नयनेष्वत्यर्थमनुषुक्तः। दृष्ट्वा च कथयति।



नृपात्मजस्य नयने विशुद्धे महीपतिश्चाप्यनुरक्तमस्य।

श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रेऽद्य विनश्यमाने॥

इदं पुरं स्वर्ग इव प्रहृष्टं कुमारसंदर्शनजातहर्षं।

पुरं विपन्ने नयने तु तस्य भविष्यते शोकपरीतचेतः॥



अनुपूर्वेण तक्षशिलामनुप्राप्तः। श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्‍गताः। वक्ष्यति च।



श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान्।

गृह्य प्रत्युज्जगामाशु बहुमान्य नृपात्मजं॥



प्रत्युद्‍गम्य कृताञ्जलिरुवाच। न वयं कुमारस्य विरुद्धा न राज्ञोऽशोकस्य। अपि तु दृष्टात्मानोऽमात्या आगत्यास्माकमपमानं कुर्वन्ति। यावत् कुनालो महता सम्मानेन तक्षशिलां प्रवेशितः।



राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः। तस्य मुखादुच्चारो निर्गन्तुमारब्धः। सर्वरोमकूपेभ्यश्चाशुचि प्रघरति न च शक्यते चिकित्सितुं। ततो राज्ञाऽभिहितं। कुनालमानयत राज्ये प्रतिष्ठापयिष्यामीति। किं ममेदृशेन जीवितेन प्रयोजनं।



श्रुत्वा च तिष्यरक्षिता चिन्तयति। यदि कुनालं राज्ये प्रतिष्ठापयिष्यति नास्ति मम जीवितं। तयाऽभिहितं। अहं त्वा स्वस्थं करिष्यामि किं तु वैद्यानां प्रवेशः प्रतिषिध्यतां। यावद् राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः। ततस्तिष्यरक्षितया वैद्यानामभिहितं। यदि कश्चिदीदृशेन व्याधिना स्पृष्टः स्त्री वा पुरुषो वाऽगच्छति मम दर्शयितव्याः।



अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः। तस्य पत्न्या वैद्याय व्याधिर्निवेदितः। वैद्येनाभिहितं। स एवागच्छत्वातुरो व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि। यावदाभीरो वैद्यसकाशमभिगतः। वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः। ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद् व्यपरोपितः। जीविताद् व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्वाशयस्थानं। अन्त्रायां कृमिर्महान् प्रादुर्भूतः। स यद्यूर्ध्वं गच्छति तेनाशुचि प्रघरति। अथाघो गच्छत्यधः प्रघरति। यावत् तत्र मरिचान् पेषयित्वा दत्तो न च [स] म्रियते। एवं पिप्पलिं श्रृङ्गवेरं च। विस्तरेण यावत् पलाण्डुं दत्तः। स्पृष्टश्च मृत उच्चारमार्गेण निर्गतः। एतच्च प्रकरणं तया राज्ञे निवेदितं। देव पलाण्डुं परिभुंक्ष्व स्वास्थ्यं भविष्यति। राजाऽह। देवि, अहं क्षत्रियः कथं पलाण्डुं परिभक्षयामि। देव्युवाच। देव, परिभोक्तव्यं जीवितस्यार्थे भैषज्यमेतत्।



राज्ञा परिभुक्तं। स च कृमिर्मृत उच्चारमार्गेण निर्गतः। स्वस्थीभूतश्च राजा। तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता। किं ते वर प्रयच्छामि। तयाऽभिहितं। सप्ताहं मम देवो राज्यं प्रयच्छतु। राजाऽह। अहं को भविष्यामि। देव्युवाच। सप्ताहस्यात्ययाद् देव एव राजा भविष्यति।



यावद् राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तं। तस्या बुद्धिरुत्पन्ना। इदानीं मयास्य कुनालस्य वैरं निर्यातयितव्यः। तया कपटलेखो लिखितस्तक्षशिलकानां पौराणां। कुनालस्य नयनं विनाशयितव्यमिति। आह च।



राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनं हि।

उद्धार्यतां लोचनमस्य शत्रौर्मौर्यस्य वंशस्य कलङ्कु एषः॥



राज्ञोऽशोकस्य यत्र कार्यमाशु परिप्राप्यं भवति [स] दन्तमुद्रया मुद्रयति। यावत् तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता। राजा च भीतः प्रतिबुद्धः। देवी कथयति। किमिदमिति। राजा कथयति। देवि स्वप्नं मंऽशोभनं दृष्टं। पश्यामि द्वौ गृध्रौ कुनालस्य नयनमुत्पाटयितुमिच्छतः। देवी कथयति। स्वास्थ्यं कुमारस्येति। एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति। देवि स्वप्नो मे न शोभनो दृष्ट इति। तिष्यरक्षिता कथयति। कीदृशः स्वप्न इति। राजाऽह। पश्यामि कुनालं दीर्घकेशनखश्मश्रुं पौरं प्रविष्टं। देव्याह। स्वास्थ्यं कुमारस्येति।



यावत् तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः। यावद् राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः।



ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकान् आहूय कथयति। कीदृश एषां स्वप्नानां विपाक इति। नैमित्तिकाः कथयन्ति। देव य ईदृशस्वप्नानि पश्यति तस्य पुत्रस्य चक्षुर्भेदो भवति। आह च।



दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च।

चतुर्भेदं च पुत्रस्य पुत्रनाशं स पश्यति॥



श्रुत्वा च राजाऽशोकस् त्वरितमुत्थायासनात् कृताञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः। आह च।



या देवता शास्तुरभिप्रसन्ना धर्मे च सङ्घे च गणप्रधाने।

ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु तेऽस्मत्तनयं कुनालं॥



स च लेखोऽनुपूर्वेण तक्षशिलामुपनीतः। अथ तक्षशिलाः पौरजानपदा लेखदर्शनात् कुनालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्रियं निवेदितुं। चिरं विचारयित्वा चण्डो राजा दुःशीलः स्वपुत्रस्य न मर्षयति प्रागेवास्माकं [किं] मर्षयति। आह च।



मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः।

यस्य द्वेषः कुमारस्य कस्य नास्य भविष्यति॥



तैर्यावत् कुनालस्य निवेदितं। लेखश्चोपनीतः। ततः कुनालो वाचयित्वा कथयति। विश्रब्धं यथात्मप्रयोजनं क्रियतामिति। यावच् चण्डाला उपनीताः कुनालस्य नयनम् उत्पाटयतेति। ते च कृताञ्जलिपुटा ऊचुः। नोत्सहयामः। कुतः।



यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन् नरः।

स चन्द्रसदृशाद् वक्त्रात् तव नेत्रे समुद्धरेत्॥



ततः कुमारेण मकुटं दत्तम्। अनया दक्षिणयोत्पाटयत इति। तस्य तु कर्मणाऽवश्यं विपक्तव्यं। पुरुषो हि विकृतरूपोष्टादशभिर्दौर्वर्णिकैः समन्वागतोऽभ्यागतः। स कथयति। अहमुत्पाटयिष्यामीति। यावत् कुनालस्य समीपं नीतः। तस्मिंश्च समये कुनालस्य स्थविराणां वचनमामुखीभूतं। स तद् वचनमनुस्मृत्योवाच।



इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः।

पश्यानित्यमिदं सर्वं नास्ति कश्चिद् ध्रुवे स्थितः॥

कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः।

यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः॥

अनित्यतां संपरिपश्यतो मे गुरूपदेशान् मनसि प्रकुर्वतः।

उत्पाटनेऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्ये॥

उत्पाट्ये वा न वा नेत्रे यथा वा मन्यते नृपः।

गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः॥



ततः कुनालस् तं पुरुषमुवाच। तेन हि भोः पुरुष एकं तावन् नयनम् उत्पाट्य मम हस्तेऽनुप्रयच्छ। यवत् स पुरुषः कुनालस्य नयनमुत्पाटयितुं प्रवृत्तः। ततोऽनेकानि प्राणिशतसहस्राणि विक्रोष्टुमारब्धानि। कष्टं भोः।



एष हि निर्मलज्योत्स्नो गगनात् पतते शशी।

पुण्डरीकवनाच्चापि श्रीमानुत्पाट्यतेऽम्बुजः॥

तेषु प्राणिशतसहस्रेषु रुदत्सु कुनालस्यैव नयनमुत्पाट्य हस्ते दत्तं। ततः कुनालस्तन्नयनं गृह्योवाच।



रूपाणि कस्मान्न निरीक्षसे त्वं यथा पुरा प्राकृतमांसपिण्ड।

ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः श्रयन्ते॥

सामग्र्यकं बुर्बुदसन्निकाशं सुदुर्लभं निर्विषयाऽस्वतन्त्रं।

एवं प्रवीक्षन्ति सदाऽप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति॥

एवं चिन्तयता तेन सर्वभावेष्वनित्यतां।

स्त्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः॥



ततः कुनालो दृष्टसत्यस्तं पुरुषमुवाच। इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्यतां। यावत्तेन पुरुषेण कुनालस्य द्वितीयं नयनमुत्पाट्य हस्ते दत्तं। अथ कुनालो मांसचक्षुषि उद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति।



उद्धृतं मांसचक्षुर्मे यद्यप्येतत् सुदुर्लभं।

प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धम् अनिन्दितं।

परित्यक्तो नृपतिना यद्यहं पुत्रसंज्ञया।

धर्मराजस्य पुत्रत्वमुपेतोऽस्मि महात्मनः॥

ऐश्वर्याद् यद्यहं भ्रष्टः शोकदुःखनिबन्धनाद्।

धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनं॥



यावत् कुनालेन श्रुतं नायं तातस्याशोकस्य आदेशः। अपि तु तिष्यरक्षितायां अयं प्रयोग इति। श्रुत्वा च कुनालः कथयति।



चिरं सुखं तिष्ठतु तिष्यनाम्नी आयुर्बलं पालयतां च देवी।

संप्रेषितोयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थः॥



ततः काञ्चनमालया श्रुतं कुनालस्य नयनानि उत्पाटितानीति। श्रुत्वा च भर्तृतया कुनालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुनालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा मूर्छिता भूमौ पतिता। यावज् जलसेकं कृत्वा उत्थापिता।



ततः कथंचित् संज्ञामुपलभ्य सस्वरं प्ररुदती उवाच।

नेत्राणि कान्तानि मनोहराणि ये मां निरीक्ष्या जनयन्ति तुष्टिं।

ते मे विपन्ना ह्यनिरीक्षणीया स्त्यजन्ति मे प्राणसमाः शरीरं॥



ततः कुनालो भार्यामनुनयन्नुवाच। अलं रुदितेन। नार्हसि शोकमाश्रयितुं। स्वयंकृतानामिह कर्मणां फलमुपस्थितं। आह च।



कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा।

मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि वाष्पमोक्षं॥



ततः कुनालो भार्यया सह तक्षशिलाया निष्कासितः। स गर्भाधानमुपादाय परमसुकुमारशरिरः। न किञ्चिद् उत्सहते कर्म कर्तुं। केवलं वीणां वादयति। गायति च। ततो भैक्ष्यं लभते कुनालः पत्न्या सह भुंक्ते।



ततः काञ्चनमाला येन मार्गेण पातलिपुत्रादानीता तमेव मार्गंमनुसरन्ती भर्तुद्वितीया पाटलिपुत्रं गता। यावदशोकस्य गृहमारब्धा प्रवेष्टुं। द्वारपालेन च निवारितौ। यावद् राज्ञोऽशोकस्य यानशालायामवस्थितौ।



ततः कुनालो रात्र्याः प्रत्युषमये वीणां वादयितुमारब्धः। यथा नयनान्युत्पाटितानि सत्यदर्शनं च कृतं तदनुरूपं हितं च गीतं प्रारब्धं। आह च।



चक्षुरादीनि यः प्राज्ञः पश्यत्यायतनानि च।

ज्ञानदीपेन शुद्धेन स संसाराद् विमुच्यते॥

यदि तव भवदुःखपीडिता भवति च दोषविनिश्चिता मतिः।

सुखमिह च यदीच्छसि ध्रुवं त्वरितमिहायतनानि संत्यज॥



तस्य गीतशब्दो राज्ञाऽशोकेन श्रुतः। श्रुत्वा च प्रीतमना उवाच।

गीतं कुनालेन मयि प्रसक्तं वीणास्वरश्चैव श्रुतश्चिरेण।

अभ्यागतोऽपीह गृहं नु कञ्चिन् न चेच्छति द्रष्टुमयं कुमारः॥



अथ राजाऽशोकोऽन्यतमपुरुषमाहूयोवाच। पुरुष लक्ष्यते।

न खल्वेष किं गीतस्य कुनालसदृशो ध्वनिः।

कर्मण्यधैर्यतां चैव सूचयन्निव लक्ष्यते॥

तदनेनास्मि शब्देन धैर्यादाकम्पितो भृशं।

कलभस्येव नष्टस्य प्रनष्टकलभः करी॥



गच्छ कुनालमानयस्वेति। यावत् पुरुषो यानशालां गतः। पश्यति कुनालम् उद्धृतनयनं वातातपपरिदग्धगात्रमप्रत्यभिज्ञाय च राजानमशोकम् अभिगम्योवाच। देव न ह्येष कुनालः। अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायाम् अवस्थितः। श्रुत्वा च राजा संविग्नश्चिन्तयामास। यथा मया स्वप्नान्यशोभनानि दृष्टानि नियतं कुनालस्य नयनानि विनष्टानि भविष्यन्ति। आह च।



स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा।

निःसंशयं कुनालस्य नेत्रे वै निधनं गते॥



ततो राजा प्ररुदन्नुवाच।

शीघ्रमानीयतामेष मत्समीपं वनीपकः।

न हि मे शाम्यते चेतः सुतव्यसनचिन्तया॥



यावत् पुरुषो यानशालां गत्वा कुनालमुवाच। कस्य त्वं पुत्रः। किं च नाम। कुनालः प्राह।



अशोको नाम राजाऽसौ मौर्याणां कुलवर्धनः।

कृत्स्नेयं पृथिवी यस्य वशे वर्तति किंकर॥

तस्य राज्ञस्त्वहं पुत्रः कुनाल इति विश्रुतः।

धार्मिकस्य तु पुत्रोऽहं बुद्धस्य आदित्यबान्धवः॥



ततः कुनाल पत्न्या सह राज्ञोऽशोकस्य समीपमानीतः। अथ राजाऽशोकः [पश्यति] कुनालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोडकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनं। स तमप्रत्यभिज्ञाय आकृतिमात्रकं दृष्ट्वा कथयति। त्वं कुनाल इति। कुनालः प्राह। एवं देव कुनालोऽस्मीति। श्रुत्वा मूर्च्छितो भूमौ पतितः। वक्ष्यति हि।



ततः कुनालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः।

राजा ह्यशोकः पतितो धरण्यां हा पुत्र शोकेन हि दह्यमानः॥



यावज् जलपरिषेकं कृत्वा राजानमुत्थापयित्वाऽसने निषादितः। अथ राजा कथञ्चित् संज्ञामुपलभ्य कुनालमुत्सङ्गे स्थापयामास। वक्ष्यति हिं।



ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः।

मुहुः कुनालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र॥

नेत्रे कुनालप्रतिमे विलोक्य सुतं कुनालेति पुरा बभासे।

तदस्य नेत्रे निधनं गते ते पुत्रं कुनालेति कथं च वक्ष्ये॥



आह च।

कथय कथय साधुपुत्र तावद्

वदनमिदं तव केन चारुनेत्रं।

गगनमिव विपन्नचन्द्रतारं

व्यपगतशोभम् अनीक्षकं कृतं ते॥

अकरुणहृदयेन तेन तात

मुनिसदृशस्य न साधु साधुबुद्धेः।

नरवरनयनेष्ववैरवैरं

प्रकृतमिदं मम भूरिशोकमूलं॥

वद सुवदन क्षिप्रमेतदर्थं

व्रजति शरीरमिदं पुरा विनाशं।

तव नयनविनाशशोकदग्धं

वनमिव नागविमुक्तवज्रदग्धं॥



ततः कुनालः पितरं प्रणिपत्य उवाच।

राजन्नतीतं खलु नैव शोच्यं

किं न श्रुतं ते मुनिवाक्यम् एतत्।

यत्कर्मभिस्तेऽपि जिना न मुक्ताः

प्रत्येकबुद्धाः सुदृढैस्तथैव॥

लब्धाफलस्थाश्च पृथग्जनाश्च ये

कृतानि कर्माण्यमृतानि देहिनां।

स्वयं कृतानामिह कर्मणां फलं

कथं तु वक्ष्यामि परैरिदं कृतं॥



अहमेव महाराज कृतापराधश्च सापराधश्च। विनिवर्तयामि योऽहं विनयामि विपत्तिजननानि।



न शस्त्रवज्राग्निविषाणि पन्नगाः

कुर्वन्ति पीडां रभसापकारिणः।

शरीरलक्ष्ये हि धृते हि पार्थिव

पतन्ति दुःखान्यशिवानि देहिनां॥

अथ राजा शोकाग्निना संतापितहृदय उवाच।

केनोद्धृतानि नयनानि सुतस्य मह्यं

को जीवितं सुमधुरं त्यजितुं व्यवस्तः।

शोकानलो निपतितो हृदये प्रचण्डः

आचक्ष्व पुत्र लघु कस्य हरामि दण्डं॥



यावद् राज्ञाऽशोकेन श्रुतं तिष्यरक्षिताया अयं प्रयोग इति।

श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच।

कथं ह्यधन्ये न निमज्जसे क्षितौ

छेत्तास्मि शीर्षं परशुप्रहारितं।

त्यजाम्यहं त्वामतिपापकारिणीम्

अधर्मयुक्तां श्रियमात्मवानिव॥



ततो राजा क्रोधाग्निना प्रज्वलितस्तिष्यरक्षितां निरीक्ष्योवाच।

उत्पाट्य नेत्रे परिपाटयामि

गात्रं किमस्या नखरैः सुतीक्ष्णैः।

जीवन्तिशूलामथ कारयामि

छेत्तास्मि नासां क्रकचेन वाऽस्याः॥

क्षूरेण जिव्हामथ कर्तयामि

विषेण पूर्णामथ घाटयिष्ये।

स एवमित्यादिवघप्रयोगं

बहुप्रकारं ह्यवदन्नरेन्द्रः॥

श्रुत्वा कुनालः करुणात्मकस्तु

विज्ञापयामास गुरुं महात्मा।

अनार्यकर्मा यदि तिष्यरक्षिता

त्वमार्यकर्मा भव मा वधी स्त्रियं॥

फलं हि मैत्र्या सदृशं न विद्यते

प्रभो तितिक्षा सुगतेन वर्णिता।

पुनः प्रणम्य पितरं कुमारः

कृताञ्जलिः सूनृतवाग् जगाद॥

राजन्न मे दुःखलवोऽस्ति कश्चित् तीव्रापकारेऽपि न मन्युतापः।

मनः प्रसन्नं यदि मे जनन्यां ययोद्धृते मे नयने स्वयं हि।



तत्तेन सत्येन ममास्तु तावन् नेत्रद्वयं प्राक्तनमेव सद्यः॥



इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः। यावद् राज्ञाऽशोकेन तिष्यरक्षिताऽमर्षितेन जतुगृहं प्रवेशयित्वा दग्धा। तक्षशिलाश्च पौराः प्रघातिताः।



भिक्षवः संशयजाताः सर्वसंशयछेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छति। किं कुनालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि।



स्थविर उवाच। तेन ह्यायुष्मन्तः श्रूयतां।

भूतपूर्वमतीतेऽध्वनि वाराणस्यामन्यतमो लुब्धकः। स हिमवन्तं गत्वा मृगान् प्रघातयति। सोऽपरेण समयेन हिमवन्तं गतः। तत्र चाशनिपतितानि पञ्चमृगशतनि एकस्या गुहायां प्रविष्टान्यासादितानि। तेन वागुरया सर्वे गृहीताः। तस्य बुद्धिरुत्पन्ना। यदि प्रघातयिष्यामि मांसः क्लेदमुपयास्यति। तेन पञ्चानां मृगशतानामक्षीण्युत्पाटितानि। ते उद्धृतनयना न क्वचित् पलायन्ति। एवं बहूनां मृगशतानां नयनान्युत्पाटितानि।



किं मन्यध्वमायुष्मन्तः। योऽसौ लुब्धकः स एष कुनालः। यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मविशेषेण पञ्चजन्मशतानि तस्य नयनान्युत्पाटितानि।



किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कूले उपपन्नः। प्रासादिकश्च संवृत्तः। सत्यदर्शनं च कृतं।



तेन ह्यायुष्मन्तः श्रूयतां।

भूतपूर्वमतीतेऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि।



यदा क्रकुच्छन्दः सम्यक्‍सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्याऽशोकेन राज्ञा चतूरत्नमयः स्तूपः कारितः। यदा राजाऽशोकः कालगतोऽश्राद्धो राजा राज्ये प्रतिष्ठितः। तानि रत्नान्यदत्तादायिकैर्हृतानि। पांशुकाष्ठं चावशिष्टं। तत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः।



तस्मिंश्च समयेन्यतमश्च श्रेष्ठिपुत्रः। तेनोक्तः। किमर्थं रुद्यत इति। तैरभिहितं क्रकुच्छन्दस्य सम्यक्‍सम्बुद्धस्य स्तूपश्चतूरत्नमय आसीत्। स इदानीं विशीर्णं इति।



ततस्तेन या तत्र क्रकुच्छन्दस्य सम्यक्‍सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा साभिसंस्कृता। सम्यक्‍प्रणिधानं च कृतं। यादृशः क्रकुच्छन्दः शास्तेदृशमेव शास्तारमारागयेयं। मा विरागयेयमिति।



किं मन्यध्वमायुष्मन्तः। योऽसौ श्रेष्ठिपुत्रः स एष कुनालः। यत्रानेन क्रकुच्छन्दस्य स्तूपोऽभिसंस्कृतस्तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः। यत् प्रतिमाऽभिसंस्कृता तस्य कर्मणो विपाकेन कुनालः प्रासादिकः संवृत्तः। यत् प्रणिधानं कृतं तस्य कर्मणो विपाकेन कुनालेन [यादृशः] शाक्यमुनिः सम्यक्‍सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः। सत्यदर्शनं च कृतं।



इति श्रीदिव्यावदाने कुनालावदनं सप्तविंशतिमं समाप्तं॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project