Digital Sanskrit Buddhist Canon

वीतशोकावदानं

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vītaśokāvadānaṁ
वीतशोकावदानं



यदा राज्ञाऽशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं। पञ्चवार्षिकं च कृतं। त्रीणी शतसहस्राणि भिक्षूणां भोजितानि। यत्रैकम् अर्हतां द्वे शैक्षाणां पृथग्‍जनकल्याणकानां च। आसमुद्रायां पृथिव्यां जनकाया यभ्दूयसा भगवच्छासनेऽभिप्रसन्नाः।



तस्य भ्राता वीतशोको नाम तीर्थ्याभिप्रसन्नः। स तीर्थ्यैर्विग्राहितः। नास्ति श्रमणशाक्यपुत्रीयाणां मोक्ष इति। एते हि सुखाभिरताः परिखेदभीरवश्चेति।



यावद्राज्ञाशोकेनोच्यते। वीतशोक मा त्वं हीनायतने प्रसादमुत्पादय। अपि तु बुद्धधर्मसङ्घे प्रसादमुत्पादय। एष आयतनगतः प्रसाद इति।



अथ राजाऽशोकोऽपरेण समयेन मृगवधाय निर्गतः। तत्र वीतशोकेनाऽरण्ये ऋषिर्दृष्टः। पञ्चातपेनावस्थितः। स च कष्टतपःसारसंज्ञी। तेनाऽभिगम्य पादाभिवन्दनं कृत्वा स ऋषिः पृष्टः। भगवन् कियच्चिरं ते इहारण्ये प्रतिवसतः। स उवाच। द्वादशवर्षाणीति। वीतशोकः कथयति। कस्तवाहारः। ऋषिरुवाच। फलमूलानि। किं प्रावरणं। दर्भचीवराणि। का शय्या। तृणसंस्तरः। वीतशोक उवाच। भगवन् किं दुःखं बाधते। ऋषीरुवाच। इमे मृगा ऋतुकाले संवसन्ति। यदा मृगाणां संवासो दृष्टो भवति तस्मिन् समये रागेण परिदह्यामि।



वीतशोक उवाच। अस्य कष्टेन तपसा [वर्तमानस्य] रागोऽद्यापि बाधते प्रागेव। श्रमणाः शाक्यपुत्रीयाः स्वास्तीर्णासनशयनोपसेविनः। कुत एषां रागप्रहाणं भविष्यति। आह च।



कष्टेऽस्मिन् विजने वने निवसता वाय्वम्बुमूलाशिना

रागो नैव जितो यदीह ऋषिणा कालप्रकर्षेण हि।

भुक्त्वान्नं सघृतं प्रभूतपिशितं दद्युत्तमालङकृतं

शाक्येष्विन्द्रियनिग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे॥



सर्वथा वञ्चितो राजाऽशोको यच्छ्रमणेषु शाक्यपुत्रीयेषु कारां करोति।



एतच्च वचनं श्रुत्वा राजा उपायज्ञोऽमात्यान् उवाच। अयं वितशोकस्तीर्थ्याभिप्रसन्नः। उपायेन भगवच्छासनेऽभिप्रसादयितव्यः।



अमात्याः आहुः। देव किमाज्ञापयसि। राजाऽह। यदाऽहं राजालङ्कारं मौलि पट्टं चापनयित्वा स्नानशालां प्रविष्टो भवामि, तदा यूयं वीतशोकस्य उपायेन मौलि पट्टं च बद्ध्‍वा [एनं] सिंहासने निषादयिष्यथ। एवमस्त्विति।



यावद् राजा राजालङ्कारं मौलिपट्टं चापनयित्वा स्नानशालायां प्रविष्टः। ततोऽमात्यैर्वीतशोक उच्यते। राज्ञोऽशोकस्यात्ययात् त्वं राजा भविष्यसि। इमं तावद्राजालङ्कारं प्रवरमौलि-पट्टं च बद्ध्‍वा [त्वां] सिंहासने निषादयिष्यामः। किं शोभसे न वेऽति।



[स] तैस्तदाभरणं मौलिपट्टं च बद्ध्‍वा सिंहासने निषादितः। राज्ञश्च निवेदितं।



ततो रजाऽशोको वीतशोकं राजालङ्कारमौलिपट्टबद्धं च सिंहासनोपविष्टं दृष्ट्वा कथयति। अद्याप्यहं जीवामि, त्वं राजा संवृत्तः। ततो राज्ञाऽभिहितं। कोऽत्रं।



ततो यावद् वध्यघातका नीलाम्बरवासिनः प्रलम्बकेशा घण्टाशब्दपाणयो राज्ञः पादयोर्निपत्योचुः। देव किमाज्ञापयसि।



राजाऽह।

वीतशोको मया परित्यक्त इति।

यावद् वीतशोक उच्यते। सशस्त्रैवैध्यघातैरस्माभिः परिवृतोऽसीति। ततोमात्या राज्ञः पादयोर्निपत्य ऊचुः। देव मर्षय वीतशोकं। देवस्यैष भ्राता।



ततो राज्ञाऽभिहितं। सप्ताहमस्य मर्षयामि। भ्राता चैष मम। भ्रातुः स्नेहादस्य सप्ताहं राज्यं प्रयच्छामि।



यावत् तूर्यशतानि संप्रवादितानि। जयशब्दैश्चानन्दितं। प्राणिशतसहस्रैश्चाञ्जलिः कृतः। स्त्रीशतैश्च परिवृतः।



वध्यघातकाश्च द्वारि तिष्ठन्ति। दिवसे गते वीतशोकस्याग्रतः स्थित्वा आरोचयन्ति। निर्गतं वीतशोक एकं दिवसं। षडहान्यवशिष्टानि। एवं द्वितीये दिवसे। विस्तरेण यावत् सप्ताहदिवसे वीतशोको राजालङ्कारविभूषितो राज्ञोऽशोकस्य समीपमुपनीतः।



ततो राज्ञाऽशोकेनाभिहितं। वीतशोक कच्चित् सुगीतं सुनृत्यं सुवादितमिति। वीतशोक उवाच। न मे दृष्टं वा स्याच्छ्रु तं वेति। आह च।



येन श्रुतं भवेद् गीतं नृत्यं चापि निरीक्षितं।

रसाश्चास्वादिता येन स ब्रूयात् तव निर्णयं॥



राजाऽह। वीतशोक इदं मया राज्यं सप्ताहं तव दत्तं। तर्यशतानि संप्रवादितानि। जयशब्दैश्चानन्दितं। अञ्जलिशतानि प्रगृहीतानि। स्त्रीशतैश्च परिचीर्णः। कथं त्वं कथयसि नैव मे दृष्टं न श्रुतमिति। वीतशोक उवाच।



न मे दृष्टं नृत्यं न च नृप श्रुतो गीतनिनदः

न मे गन्धा घ्राता न च खलु रसा मेऽद्य विदिताः।

न मे स्पृष्टः स्पर्शः कनकमणिहाराङ्गजनितः

समूहो नारीणां मरणपरिबद्धेन मनसा॥

स्त्रियो नृत्यं गितं भवनशयनान्यासनविधिः

वयो रूपं लक्ष्मीर्बहुविविधरत्ना च वसुधा।

निरानन्दा शून्या मम तु वरशय्या गतसुखा

स्थितान् दृष्ट्वा द्वारे वधकपुरुषान् नीलवसनान्॥

श्रुत्वा घण्तारवं घोरं नीलाम्बरधरस्य हि।

भयं मे मरणाज्जातं पार्थिवेन्द्र सुदारुणं॥

मृत्युशल्यपरीतोऽहं नाश्रौषं गीतमुत्तमं।

नाद्राक्षं नृपते नृत्यं न च भोक्तुं मनःस्पृहा॥

मृत्युज्वरगृहीतस्य न मे स्वप्नोऽपि विद्यते।

कृत्स्ना मे रजनी याता मृत्युमेवानुचिन्ततः॥



राजाऽह। वीतशोक। मा तावत्। तवैकजन्मिकस्य मरणभयात् तव राजश्रियं प्राप्य हर्षो नोत्पन्नः। किं पुनर्भिक्षवो ये जन्मशतमरणभयभीताः सर्वाण्युपपत्त्यायतनानि दुःखान्यनुसृतानि पश्यन्ति। नरके तावच्छरीरसंतापकृतमग्निदाहदुःखं च तिर्यक्ष्वन्योन्यभक्षणपरित्रासदुःखं, प्रेतेषु क्षुत्तर्षदुःखं। पर्येष्टिसमुदाचारदुःखं मनुष्येषु। च्यवनपतनभ्रंशदुःखं देवेषु। एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तं शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति। शून्यग्रामभूतान्यायतनानि, चौरभूतानि विषयाणि कृत्स्नं च त्रैधातुकमनित्याग्निना प्रदीप्तं पश्यन्ति। तेषां रागः कथमुत्पद्यते। आह च।



तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः।

मनसि विषयैर्मनोज्ञैः सततं खलु पच्यमानस्य॥

किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयतां।

मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु॥

तेषां न वस्त्रशयनासनभोजनादि मोक्षेऽभियुक्तमनसां जनयेत सङ्गं।

पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान्॥

कथं च तेषां न भवेद् विमोक्षो मोक्षार्थिनां जन्मपराङमुखाणां॥

येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः॥



यदा वीतशोको राज्ञाऽशोकेनोपायेन भगवच्छासनेऽभिप्रसादितः स कृतकरपुट उवाच। देव एषोऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्‍संबुद्धं शरणं गच्छामि। धर्मं च भिक्षुसंङ्घं चेति। आह च।



एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रं।

बुधविबुधमनुजमहितं जिनं विरागं सङ्घं चेति॥



अथ राजाऽशोको वीतशोकं कण्ठे परिष्वज्योवाच। न त्वं मया परित्यक्तः। अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः।



ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति। सद्धर्मं च श्रृणोति। सङ्घे च कारां कुरुते।



स कुक्कुटारामं गतः। तत्र यशो नाम स्थविरः अर्हन् षडभिज्ञः। स तस्य पुरतो निषण्णो धर्मश्रवणाय। स्थविरश्च तमवलोकयितुमारब्धः।



स पश्यति वीतशोकमुपचितहेतुकं चरमभविकं तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यं। तेन तस्य प्रव्रज्याया वर्णो भाषितः। तस्य श्रुत्वा स्पृहा जाता। प्रव्रजेयं भगवच्छासने। तत उत्थाय कृताञ्जलिः स्थविरमुवाच। लभेयमहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भवतोऽन्तिके ब्रह्मचर्यं। स्थविर उवाच। वत्स। राजानमशोकमनुज्ञापयस्वेति।



ततो वीतशोको येन राजाऽशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच। देव अनुजानीहि मां। प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धयाऽगारादनागारिकां। आह च।



उभ्दान्तोऽस्मि निरंकुशो गज इव व्यावर्तितो विभ्रमात्

त्वद्बुद्धिप्रभवांकुशेन विधिवद् बुद्धोपदेशैर् अहं।

एकं त्वर्हसि मे वरं प्रवरितुं त्वं पार्थिवानां पते

लोकालोकवरस्य शासनवरे लिङ्गं शुभं धारये॥



श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच। वीतशोक। अलमनेन व्यवसायेन। प्रव्रज्या खलु वैवर्णीकाभ्युपगता वास पांशुकूलं।



प्रावरणं परिजनोज्झितम्। आहारों भैक्षं परकुले। शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः। ब्याबाधे खल्वपि भैषज्यमसुलभं। पूतिमुक्तं च भोजनं। त्वं च सुकुमारः शीतोष्णक्षित्पिपासानां दुःखानामसहिष्णुः। प्रसीद निवर्तय मानसं।



वीतशोक उवाच। देव।

नैवाहं तन्न जाने न विषयतृषितो नायासविहतः

प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्यकृपणः।

दुःखार्त मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं

पन्थानं जन्मभीरुः शिवमभयमहं गन्तुव्यवसितः॥



श्रुत्वा राजाशोकः सशब्दं प्ररुदितुमारब्धः। अथ वीतशोको राजानमनुनयन्नुवाच। देव।



संसारदोलामभिरुह्य लोलां यदा निपातो नियतः प्रजानां।

किमार्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः॥



राजाऽह। वीतशोक। भैक्षे तावदभ्यासः क्रियतां। राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः। भोजनं चास्य दत्तं। सोऽन्तःपुरं पर्यटति महार्हं चाहारं लभते।



ततो राज्ञाऽन्तःपुरिकाभिहिता। प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छेति। तेन यावदभिदूषिता पूतिकमाषा लब्धाः। तांश्च परिभोक्तुमारब्धः। दृष्ट्वा राज्ञाऽशोकेन निवारितः। अनुज्ञातश्च प्रव्रज, किन्तु प्रव्रजित्वा उपदर्शयिष्यसि।



स यावत् कुक्कुटारामं गतः। तस्य बुद्धिरुत्पन्ना। यदि इह प्रव्रजिष्यामि आकीर्णो भविष्यामि। ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः। ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तं।



अथायुष्मतो वीतशोकस्य अर्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत्। अस्ति खलु मे [द्रष्टुकामो भ्राता। ततः पाटलिपुत्राय प्रस्थितः।] पूर्वं राज्ञोऽशोकस्य गृहद्वारमनुप्राप्तः। ततो दौवारिकमुवाच। गच्छ राज्ञोऽशोकस्य निवेदय वीतशोको द्वारितिष्ठति देवं द्रष्टुकाम इति।



ततो दौवारिको राजानमशोकमभिगम्योवाच। देव, दिष्ट्या वृद्धि र्वीतशोकोऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः। ततो राज्ञाऽभिहितं। गच्छ शीघ्रं प्रवेशयेति।



यावद् वीतशोको राजकुलं प्रविष्टः। दृष्ट्वा च राजाशोकः सिंहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेण [भूमौ निपतितः। ततः स] आयुष्मन्तं वीतशोकं निरीक्षमाणः प्ररुदन्नुवाच।



भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारं।

विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यतिरसस्य तृप्तः॥



अथ राज्ञोऽशोकस्य राघगुप्तो नामाग्रामात्यः। स पश्यत्यायुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृन्मयं पात्रं यावदन्नभक्षं लूहप्रणीतं। दृष्ट्वा च राज्ञः पादयोर्निपत्य कृताञ्जलिरुवाच। देव यथायमल्पेच्छः सन्तुष्टश्च नियतमयं कृतकरणीयो भविष्यति। प्रीतिरुत्पाद्येत। कुतः।



भैक्षान्नभोजनं यस्य पांशुकूलं च चीवरं।

निवासो वृक्षमूलं च तस्य ह्यनियतं कथं॥

निरास्रवं यस्य मनो विशालं निरामयं चोपचितं शरीरं।

स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोके॥



श्रुत्वा ततो राजा प्रीतमना उवाच।

अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च।

दृष्ट्वा वशंनिवहं [नु]प्रहीणमदमानमोहसारम्भं॥

अत्युद्धतमिव मन्ये यशसा पूतं पुरमिव गेहं च।

प्रतिपद्यतां त्वया [वै] दशबलधरशासनमुदारं॥



अथ राजाऽशोकः सर्वाङ्गेण परिगृह्य प्रज्ञप्त एवासने निषादयामास। प्रणीतेन चाहारेण स्वहस्तं सन्तर्पयति। भुक्तवन्तं विदित्वा घौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय।



अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच।



अप्रमादेन सम्पाद्य राजैश्वर्यं प्रवर्ततां।

दुर्लभत्रीणि रत्नानि नित्यं पूजय पार्थिव॥



स यावद् धर्म्यया कथया संप्रहर्षयित्वा संप्रस्थितः। अथ राजाऽशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतोऽनेकैश्च पौरजनसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः। वक्ष्यति हि।



भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यते।

प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलं॥



तत आयुस्मान् वीतशोकः स्वगुणानुभ्दावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः। अथ राजाऽशोकः कृतकरपुटः प्राणिकशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच।



स्वजनस्नेहनिःसङ्गो विहङ्ग इव गच्छसि।

श्रीरागनिगडैर्बद्धानस्मान् प्रत्यादिशन्निव॥

आत्मायत्तस्य शान्तस्य मनःसंकेतचारिणः।

ध्यानस्य फलमेतच्च रागान्धैर्यन् न दृश्यते॥



अपि च।

ऋद्धया खल्ववभर्त्सिताः परमया श्रीगर्वितास्ते वयं

बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयाः।

प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं

संक्षेपेण सबास्पदुर्दिनमुखाः स्थाने विमुक्ता वयं॥



तत्रायुष्मान् वीतशोकः प्रत्यन्तिकेषु जनपदेषु शय्याशनाय निर्गतः। तस्य च महाव्याधिरुत्पन्नः। श्रुत्वा च राज्ञाऽशोकेन भैषज्यमुपस्थायकाश्च विसर्जिताः। तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत्। यदा च व्याधिर्निर्गतस्तस्य विरुढानि शिरसि रोमाणि। तेन वैद्योपस्थायकाश्च विसर्जिताः। तस्य च गोरसः प्राय आहारोनुसेव्यते। स घोषं गत्वा भैक्षं पर्यटति।



तस्मिंश्च समये पुण्डवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपतिता चित्रार्पिता। उपासकेनाशोकस्य राज्ञो निवेदितं। श्रुत्वा च राज्ञाऽभिहितं शीघ्रमानीयतां।



तस्योर्ध्वं योजनं यक्षाः श्रुण्वन्ति। अधो योजनं नागाः। यावत्तं तत्क्षणेन यक्षैरुपनीतं। दृष्ट्वा च राज्ञा रुषितेनाभिहितं। पुण्डवर्धने सर्वे आजीविकाः प्रघातयितव्याः। यावदेकदिवसेऽष्टादशसहस्राणि आजीविकानां प्रघातितानि।



ततः पाटलिपुत्रे भूयोऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर्निपतिता चित्रार्पिता। श्रुत्वा च राज्ञाऽमर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशयित्वाऽग्निना दग्धः। आज्ञप्तं च यो मे निर्ग्रन्थस्य शिरो दास्यति तस्य दीनारं दास्यामि। इति घोषितं।



स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिवासमुपगतः। तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि दीर्घकेशनखश्मश्रु। आभीर्या बुद्धिरुत्पन्ना निर्ग्रन्थोऽयमस्माकं गृहे रात्रिवासमुपगतः। स्वामिनमुवाच। आर्यपुत्र सम्पन्नोऽयमस्माकं दीनारः। इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञोऽशोकस्योपनामयेयमिति।



ततः स आभीरोऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः। आयुष्मता च वीतशोकेन पूर्वान्तं ज्ञानं क्षिप्तं। पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितं। ततः कर्मप्रतिशरणो भूत्वाऽवस्थितः। तेन तथाऽस्याभीरेण शिरश्छिन्नं। राज्ञोऽशोकस्योपनीतं। दीनारं प्रयच्छेति।



दृष्ट्वा च राज्ञाऽशोकेन न परिज्ञातं। विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति। ततो वैद्या उपस्थायका आनीताः। तैर्दृष्ट्वाभिहितं। देव वीतशोकस्यैत् शिरः। श्रुत्वा राजा मुर्च्छितो भूमौ पतितः। यावज् जलसेकं दत्त्वा स्थापितः। अमात्यैश्चाभिहितं। देव वीतरागाणामपि अत्र पीडा जाता। दीयतां सर्वसत्त्वेष्वभयप्रदानं।



यावद्राज्ञाऽभयप्रदानं दत्तं, न भूयः कश्चित् प्रघातयितव्यः।



ततो भिक्षवः संशयजाताः सर्वसंशयछेत्तारम् आयुष्मन्तमुपगुप्तं पृच्छन्ति। किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितः। स्थविर उवाच। तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु। शूयतां।



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति। अटव्यामुदपानं। स तत्र लुब्धो गत्वा पशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति।



असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते। विस्तरः। अन्यतरः प्रत्येकबुद्धस् तस्मिन्नुदपाने आहारकृत्यं कृत्वोदपानादुत्तीर्य वृक्षमूले पर्यङ्केण निषण्णः। तस्य गन्धेन मृगास्तस्मिन्नुदपाने नाभ्यागताः। स लुब्ध आगत्य पश्यति नैव मृगा उदपानमभ्यागताः। पदानुसारेण च तं प्रत्येकबुद्धमभिगतः। दृष्ट्वा चास्य बुद्धिरुत्पन्ना। अनेनैष आदीनव उत्पादितः। तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः।



किं मन्यध्वे आयुष्मन्तः। योऽसौ लुब्धः स एष वितशोकः। यत्रानेन मृगाः प्रघातितास् तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः।



यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितस्तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्चजन्मशतनि मनुष्यषुपपन्नः शस्त्रेण प्रघातितः। तत्कर्मावशेषेणैतर्हि अर्हत्त्वप्राप्तोऽपि शस्त्रेण प्रघातितः।



किं कर्म कृतं येन उच्चकुले उपपन्नः। अर्हत्त्वं च प्राप्तं।



स्थविर उवाच। काश्यपे सम्यक्‍सम्बुद्धे प्रव्रजितः। अभूत् प्रदानरुचिः। तेन दायकदानपतयः सङ्घभक्ताः कारापिताः। तर्पणानि यवागूपानानि निमन्त्रणाकानि [कारापितानि] स्तूपेषु च छत्राण्यवरोपितानि। ध्वजपताकागन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः। तस्य कर्मणो विपाकेनोच्चकुल उपपन्नः। यावद् दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक् प्रणिधानं कृतं। तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति।



इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतितमं।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project