Digital Sanskrit Buddhist Canon

संसार इति ९५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saṁsāra iti 95
संसार इति ९५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासन<ग्लान> प्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः। स जातमात्र एव गृहमवलोक्य वाचं निश्चारयति स्म। दुःखो भवत्तः संसारः परमदुःखः संसारः। इत्युक्ता तूष्णीमवस्थितः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादयं जातमात्र एव संसार इति घोषयति तस्माद्भवतु दारकस्य संसार इति नामेति॥ संसारो दारको अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥



यदा संसारो दारकः क्रमेण महान्संवृत्तः स प्रकृतिजातिस्मरत्वाच्च जनकायस्य धर्मं देशयति। मा भवत्तो गुरुषु गुरुस्थानीयेषु मातापितृष्वाचार्योपाध्यायेषु वा खरवाचं निश्चारयत दुःखं संसार इति॥ यावदपरेण समयेन इतश्चामुतश्च परिभ्रमञ्जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारो दारकः संसारे दोषदर्शी भूत्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। सो ऽर्हत्त्वप्राप्तो ऽपि भिक्षूणां धर्मं देशयति। मायुष्मत्तो गुरुषु गुरुस्थानीयेषु मातापितृष्वाचार्योपाध्यायेषु खरवाचं निश्चारयत दुःखं संसारः परमदुःखं संसार इति। * * * * * * * * * * * * * *॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त संसारेण कर्माणि कृतान्युपचितानि येन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर्निर्गतः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। संसारेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। संसारेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। वाराणस्यां नगर्यामन्यतमः श्रेष्ठिपुत्रः स्थविरसकाशे प्रव्रजितः। स च स्थविरो ऽर्हन् स रागविप्रहीणः॥ यावतत्र देशे पर्व समुपस्थितम्। ततस्तरुणभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ स्थविर आह। वत्साद्यापि प्रातरेव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ द्विरपि त्रिरपि तरुणाभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ द्विरपि त्रिरपि स्थविर आह। वत्साद्यापि प्रातरेव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ ततस्तेन तरुणभिक्षुणा रसगृध्रेण खरं वाक्कर्म निश्चारितम्। मा त्वं पञ्चभिरपि जन्मशतैर्जीवः कोशान्निर्गच्छ एषो ऽहं निर्गत इति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन तरुणभिक्षुरयं संसारः। यदनेनार्हतो ऽत्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पञ्च जन्मशतानि मृतकुणप एव मातुः कुक्षेर्निर्गतः। निर्गतेषु पञ्च<सु> जन्मशतेषु इदानीमनेन मनुष्यत्वमासादितम्। ततस्तत्स्मृत्वा कथयति दुःखं संसारः परमदुःखं संसार इति। यदनेन विप्रतिसारजातेन स्थविरस्यात्ययो देशितो ब्रह्मचर्यवासश्च परिपालितस्तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project