Digital Sanskrit Buddhist Canon

हस्तक इति ९३

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Hastaka iti 93
हस्तक इति ९३।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः प्रकृतिजातिस्मरश्च। स स्वकं हस्तं गृहीत्वा आलिङ्गते चुम्बति परिष्वजति वाचं भाषते। अहो बत मे हंस्तकौ सुचिरेण लब्धौ अहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादयं जातमात्र एव हस्तावालिङ्गते चुम्बति तस्माद्भवतु दारकस्य हस्तक इति नामेति॥ हस्तको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा तत्र देशे किञ्चिद्भवति भयं तदा स जनकायो भीत इतश्चामुतश्चोद्भात्तो भाण्डं गोपायति स तु हस्तौ गोपायति जनकायस्य चैवं कथयति। मा भवत्तो दक्षिणीयेषु चित्तं प्रदूषयत मा परुषां वाचं भाषयध्वमहो बत मे हस्तकौ सुचिरेण लब्धकावहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥



यावदपरेण समयेन हस्तको जेतवनं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। ततो ऽस्य भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा हस्तकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। सो ऽर्हत्त्वप्राप्तो ऽप्येवमेव भिक्षूणां धर्मं देशयति। मा भवत्तो दक्षिणीयेषु चित्तं प्रदूषयत मा खरां वाचं निश्चारयत अहो वत मे हस्तकौ सुचिरेण लब्धकावहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त हस्तकेन कर्माणि कृतान्युपचितानि येनार्हत्त्वप्राप्तो ऽप्येवमेव कथयति। अहो बत मे हस्तकौ सुचिरेण लब्धकावहो बत मे हस्तकौ सुचिरेण लब्धकाविति॥ भगवानाह। प्रत्यक्षकर्मफलदर्शी भिक्षवो ऽयं पुद्गलः। इच्छथ यूयमवधारयितुम्॥ एवं भदत्त॥ हस्तकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। हस्तकेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नस्सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावत्तत्र द्वौ भिक्षू संशीलिकौ। तत्रैको बहुश्रुतो ऽर्हन्द्वितीयो ऽल्पश्रुतः पृथग्जनश्च। तत्र यो ऽसावर्हन्बहुश्रुतः स ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां बहूनि च निमन्त्रणकानि प्रतिलभते। स तं संशीलिकभिक्षुं यत्र निमन्त्रितो भवति तत्र पश्चाच्छ्रमणं नयति॥ यावदन्यतमस्मिन्दिवसे ऽर्हन्निमन्त्रितो निमन्त्रणकं गत्तुकामस्तं पश्चाच्छ्रमणमागच्छति न च प्रतिलभते। ततस्तेन तस्यादर्शनादन्यो भिक्षुर्नीतः॥ यावत्तत्र तरुणभिक्षुभिरौद्धत्याभिप्रायै<रे>वमुक्तम्। पश्यत भदत्ता यावत्तेनायं पश्चाच्छ्रमणो ऽद्य न नीतो ऽन्यो नीत इति। ततस्तेन क्रोधाभिभूतेनार्हतो ऽत्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितम्। * * * * * * * * * * * * * * * * * तेन पञ्च जन्मशतान्यहस्तो जातः। यदाशयतो विप्रतिसारजातेनात्ययमत्ययतो देशितं विवृतमुत्तानीकृतं तेन हस्तौ प्रतिलब्धौ। यत्पुनस्तेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो <भगवतो> भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project