Digital Sanskrit Buddhist Canon

त्रिपिट इति ८४

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tripiṭa iti 84
त्रिपिट इति ८४।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन श्रावस्त्यां राजा प्रसेनजित्कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति। यावदसौ देव्या सह क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः काषायवस्त्रं प्रावृत्य श्रमणवेषधारी जातिस्मरश्च। स जातमात्रः पृच्छति किं भगवानिहैव श्रावस्त्यां शारिपुत्रमौद्गल्यायनकाश्यपानन्दप्रभृतयो वा महाश्रावका इति। ततो ऽस्य माता विस्मयहर्षपूर्णा कथयति। पुत्रक भगवानिहैव श्रावस्त्यां महाश्रावकाश्चेति॥ यावदेषो ऽर्थो राज्ञः प्रसेनजितो निवेदितः। <पुत्रस्ते जातः> काषायवस्त्रं प्रावृत्य श्रमणवेषधारी जातिस्मरश्च। स भगवतो महाश्रावकाणां च प्रवृत्तिमन्वेषत इति॥ ततो राज्ञा प्रसेनजिता तस्यानुग्रहार्थं भगवान्सश्रावकसङ्घो भक्तेनोपनिमन्त्रितः॥ अथ भगवान्भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञः प्रसेनजितो भक्ताभिसारस्तेनोपसंक्रात्त उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषणः। ततो राजा प्रसेनजित्कौशलः पुत्रमुत्सङ्घे कृत्वा भगवतो दर्शयति। अयं मे भगवन्पुत्रो जातमात्र एव भगवत्तं स्मरति महाश्रावकांश्चेति॥ ततो भगवांस्तं कुमारमामन्त्रयते। आरोग्यं ते त्रिपिटेति॥ स कथयति। वन्दे तथागतमर्हत्तं सम्यक्सबुद्धमिति॥ ततो राजा प्रसेनजित्परं विस्मयमापन्नः॥



यदा सप्तवर्षो जातस्तदा भगवच्छासने प्रव्रजितस्तैरेव काषायैः प्रावृतः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त त्रिपिटेन कर्माणि कृतानि येन काषायवस्त्रप्रावृतो जातः श्रमणवेषधारी जातिस्मरः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। त्रिपिटेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। त्रिपिटेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ यावद्राज्ञः कृकिणः पुत्र ऋषिपतनं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य प्रसादो जातः। स प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी भूत्वा राजानं विज्ञापयामास। अनुजानीहि मां तात भगवच्छासने प्रव्रजिष्यामीति॥ राजोवाच। न शक्यमेतन्मया कर्तुं यस्मात्ते युवराजाभिषेको नचिरेण भविष्यतीति॥ कुमारः कथयति। अलं मे राज्येन बहुदोषदुष्टधर्मसंपन्नेनावश्यमेवाहं भगवच्छासने प्रव्रजिष्यामीति॥ स पित्रा नानुज्ञातः। तेनैको भक्तच्छेदः कृतः। द्वौ त्रयो वा यावत्षड्भक्तच्छेदाः कृताः॥ ततो ऽस्य वयस्यकै राजा विज्ञप्तः। देव अनुजानीहि कुमारं प्रव्रजितुं मा हैव कालं करिष्यतीति॥ ततो राज्ञा पुत्रः प्रतिज्ञां कारितस्तावत्ते ऽस्माकं दर्शनं न देयं यावत्त्रयः पिटका अधीता इति॥ यावदसौ पितरमनुज्ञाप्य भगवच्छासने प्रव्रजितः॥



तेन युज्यमानेन घटमानेन व्यायच्छमानेन नचिरेण त्रयः पिटका अधीताः। युक्तमुक्तप्रतिभानी धार्मकथिकः संवृत्तः॥ तस्यैतदभवत्। यन्न्वहं पूर्विकां प्रतिज्ञां निर्यातयेयमिति। स पितुः सकाशं गतः। स पृष्टश्च किं पुत्रास्ति किञ्चिदधीतमिति॥ तेनोक्तं त्रयःपिटका इति॥ ततस्तेन पितुस्तादृशी धर्मदेशना कृता यां श्रुत्वा राजा आत्तमनाः संवृत्तः। ततः प्रसादजातः कथयति। पुत्र केन ते प्रयोजनमिति॥ तेनोक्तम्। इच्छाम्यहं भगवत्तं सश्रावकसङ्घमुपनिमत्त्र्य षड्भिः परिष्कारैराच्छादयितुमिति॥ राजा कथयति। यथेष्टं कुरुष्व विस्तीर्णं राजकुलमिति॥ ततस्त्रिपिटेन भगवान्विंशतिसहस्रपरिवारः प्रणीतेनाहारेण संतर्पित एकैकश्च भिक्षुः षड्भिः परिष्कारैराच्छादितः॥ ततः पादयोर्निपत्य प्रणिधानं कृतम्। यन्मया इदानीं कृच्छ्रेण प्रव्रज्या प्रतिलब्धा तथागते च <स>श्रावकसङ्घे काराः कृता अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्र काषायवस्त्रप्रावृत एव श्रमणवेषधारी जातिस्मरश्च स्यामिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कृकिणः पुत्रो ऽयं त्रिपिटः। तेनैव हेतुना आढ्ये राजकुले पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको जातिस्मरश्च संवृत्तः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project