Digital Sanskrit Buddhist Canon

कचङ्गलेति ७८

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kacaṅgaleti 78
कचङ्गलेति ७८।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कचङ्गलायां विहरति काचङ्गलीये वनषण्डे। तस्यां कचङ्गलायां कचङ्गला नाम वृद्धा। सा घटमादायोदकार्थिनी कूपमुपसृप्ता॥ तत्र भगवानायुष्मत्तमानन्दमामन्त्रयते। गच्छानन्द एतस्यां वृद्धायां कथय भगवांस्तृषितः पानीयमनुप्रयच्छस्वेति। सा आनन्देनोक्ता कथयति। अहं स्वयमेवानेष्यामीति॥ यावत्कचङ्गला पानीयघटं पूरयित्वा भगवतः सकाशं गता। ददर्श कचङ्गला बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनादस्याः पुत्रस्नेह <ःस>मुत्पन्नः स्तनाभ्यां क्षीरधाराः प्रस्रुताः। सा ऊर्ध्वबाहूः पुत्र पुत्रेति भगवत्तं परिष्वक्तुमारब्धा। भिक्षवस्तां वारयत्ति॥ भगवानाह। मा यूयं भिक्षव इमां बृद्धां वारयत। तत्कस्य हेतोः।



पञ्च जन्मशतान्येषा मम माता आसीन्निरत्तरम्।

इयं मे पुत्रस्नेहेन गात्रेषु समश्लिक्षत॥

सचेदेषा निवार्येत मम गात्रेषु श्लेषणात्।

इदानीं रुधिरं ह्युष्णं कण्ठादस्याः स्रवेत्क्षणात्॥

कृतज्ञतामनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्।

कारुण्याद्गात्रसंश्लेषं ददामि अनुकम्पया॥



यावदसौ पुत्रस्नेहं विनोद्य भगवतः पुरस्तान्निषणा धर्मश्रवणाय। भगवता चास्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा कचङ्गलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्॥ सा दृष्टसत्या गाथा भाषते।

यत्कर्तव्यं <हि>पुत्रेण मातुर्दुष्करकारिणा।

तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्॥

दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षे च ते अहम्।

स्थापिता सर्वयत्नेन विशेषः सुमहान्कृतः॥



यावदसौ स्वामिनमनुज्ञाप्य भगवच्छासने प्रव्रजिता। तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥ यदा भगवान्भिक्षुणीनां संक्षेपेणोद्दिश्य प्रतिसंलयनाय प्रविशति तदा कचङ्गला भिक्षुणीनां व्याकरोति॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रात्तविभागकर्त्रीणां यदुत कचङ्गला भिक्षुणीति॥



भिक्षवः संशयजाताः सर्वसंश<य>च्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। किं भदत्त कचङ्गलया कर्म कृतं येन वृद्धा प्रव्रजिता किं कर्म कृतं येन भगवान्पश्चिमगर्भवासे न धारितः प्रव्रज्य चार्हत्त्वं साक्षात्कृतं सूत्रात्तविभागकर्त्रीणां चाग्रा निर्दिष्टा इति॥ भगवानाह। कचङ्गलयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। कचङ्गलया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतने<षु> कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि बोधिसत्त्वचर्यायां वर्तमानस्यैषा मे पञ्च जन्मशतानि माता आसीन्निरत्तरं यदाहं प्रव्रजितुमिच्छामि तदा मामेषा वारयति। तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता। दानं ददतो मे दानात्तरायो ऽनया कृतः। तेन दरिद्रा संवृत्ता। किं त्वनया नैवंविधानि महेशाख्यसंवर्तनीयानि कर्माणि कृतानि यथा महामाया <कृत>वती। तेनाहमनया पश्चिमे न धारितः॥ भूयः काश्यपे भगवति प्रव्रजिता आसीत्। तत्रानया शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचीर्णाः। तेन दासी संवृत्ता। यत्तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतं सूत्रात्तविभागकर्त्रीणां चाग्रतायां निर्दिष्टा। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project