Digital Sanskrit Buddhist Canon

साल इति ५३

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sāla iti 53
साल इति ५३।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु पुनः समयेन श्रावस्त्यां सालभञ्जिका नाम पर्व प्रत्युपस्थितम्। तत्रानेकानि प्राणिशतसहस्राणि संनिपत्य सालपुष्पाण्यादाय क्रीडत्ति रमत्ते परिचा<र>यत्ति॥ यावदन्यतरा श्रेष्ठिदारिका सा<ल>पुष्पाण्यादाय श्रावस्तीं प्रविशति भगवांश्चभिक्षुगणपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति। ददर्श सा दारिका बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं दृष्ट्वा च पुनः प्रसादजातया भगवान्सालपुष्पैरवकीर्णः। ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति॥ यावदसौ सालवृक्षमधिनूढा पतिता भगवतः कृतोपस्थाना कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना॥



यावत्सालपुष्पविमानालङ्कृता देवसमितिमुपसंक्रात्ता तस्मिंश्च काले शक्रो देवेन्द्रस्सुधर्मायां देवसभायां देवगणस्य मध्ये बुद्धस्य वर्णं भाषते धर्मस्य सङ्घस्य च वर्णं भाषते। ददर्श शक्रो देवेन्द्रस्तां देवकन्यां सालपुष्पविमानालङ्कृतामुत्तप्तकुशलमूलां दृष्ट्वा च गाथया प्रत्यभाषत।



गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव।

गात्रश्रीरतुला कृतेयमिह ते देहात्प्रभा निःसृता।

वक्तं केन विबुद्धपद्मसदृशं चामीकराभं तव।

ब्रूहि त्वं मम देवते फलमिदं यत्कर्मजं भुज्यते॥



देवता प्राह।

सश्रावको नरादित्य आकीर्णो वरलक्षणैः।

तत्कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम।

जलजेन्दुविशुद्धाभं वदनं कात्तदर्शनम्॥



शक्रः प्राह।

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्र न्यस्तं त्वया बीजमिष्टं स्वर्गोपपत्तये॥

को नार्चयेत्प्रवरकाञ्चनराशिगौरम्।

बुद्धं विशुद्धकमलायतपत्रनेत्रम्।

यत्राधिकारजनितानि वराङ्गनानाम्।

रेजुर्मुखानि कमलायतलोचनानि॥



धर्मता खलु देवपुत्रस्य वा देवकन्याया वा ऽचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। सा पश्यति मनुष्येभ्यश्च्युता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तं प्रसाद्येति। अथ तस्या देवकन्याया एतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासा भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ सा देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री अनेकदेवताशतसहस्रपरिवृता तेनैव सालपुष्पविमानेन सह भगवत्सकाशमुपसंक्रात्ता। भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवांस्तस्या देवताया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा तया देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न देवताभिर्न राज्ञा नेष्ठेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णां च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम॥



अथासौ देवकन्या वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वभवनं गता॥



भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासो यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भदत्त इमां रात्रिं ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला भगवत्तं दर्शनायोपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु दृष्टा युष्माभिः सा दारिका यया अह<म>त्तर्मार्गे सालपुष्पैरवकीर्णः॥ एवं भदत्त॥ सैषा ममात्तिके चित्तमभिप्रसाद्य कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना। सा इमां रात्रिं मत्सकाशमुपसंक्रात्ता तस्या मया धर्मो देशितो दृष्टसत्या च स्वभवनं गता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project