Digital Sanskrit Buddhist Canon

पानोयमिति ४३

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pānoyamiti 43
पानोयमिति ४३।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ अथायुष्मान्महामौद्गल्यायनः प्रेतचारिकां चरन्प्रेतीमद्राक्षीद्दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतां ध्मायत्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दर्शनमात्रेण चास्या नद्युदपानानि शुष्यत्ति यदा देवो वर्षति तदा तस्या उपरि सविस्फुलिङ्गाङ्गारवर्षं पतति॥ दृष्ट्वा तामायुष्मान्महामौद्गल्यायन आह। किं त्वया कृतं पापं येनैवंविधं दुःखमनुभवसीति॥ प्रेती आह। पापकारिण्यहं भदत्त महामौद्गल्यायन एतमर्थं भगवत्तं पृच्छ स ते अस्माकीनां कर्मप्लोतिं कथयिष्यति यां श्रुत्वान्ये ऽपीह सत्त्वाः पापकात्कर्मणः प्रतिविरंस्यत्तीति। अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः॥



तेन खलु पुनः समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिञ्जमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिनः प्रियालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ महामौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायाः तत्राहं प्रेतीमद्राक्षं दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतां ध्मायत्तीमार्तस्वरं क्रन्दत्तीं तृषांर्ता दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दर्शनमात्रेण चास्या नद्युदपानानि शुष्यत्ति यदा देवो वर्षति तदास्या उपरि सविस्फुलिङ्गमङ्गारवर्षं पतति॥ भगवानाह। पापकारिणी मौद्गल्यायन सा प्रेती। इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।



भूतपूर्वं मौद्गल्यायनातीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां <च> बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तत्रान्यतमो भिक्षुरध्वानं प्रतिपन्नः॥ स तृषार्तः कूपमुपसृप्तः। तत्रान्यतरा दारिका पानीयघटं पूरयित्वा स्थिताभूत्॥ सा भिक्षुणोक्ता तृषार्तो ऽहं भगिनि पानीयमनुप्रयच्छेति॥ तस्या मात्सर्यमुत्पन्नम्। सागृहीतपरिष्कारा भिक्षुमुवाच। भिक्षो यदि म्रियसे न ते ददामि पानीयं घटो मे ऊनो भविष्यतीति॥ ततो ऽसौ भिक्षुस्तृषार्तो निराशः प्रक्रात्तः॥ ततो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना एवंविधां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयते॥ तस्मात्तर्हि मौद्गल्यायन एवं शिक्षितव्यं यन्मात्सर्यप्रहाणाय व्यायंस्यामह इत्येवं ते मौद्गल्यायन शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमना आयुष्मान्मौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project