Digital Sanskrit Buddhist Canon

निर्मल इति २९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nirmala iti 29
निर्मल इति २९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैमहोरगैरिति देवमनुष्यासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ श्रावस्त्यामन्यतम आरामिकः। स दत्तकाष्ठमादाय श्रावस्तीं प्रविशति नैमित्तिकश्च द्वारे ऽवस्थितः। स कथयति। य एतद्दत्तधावनं भक्षयिष्यति स शतरसं भोजनं भक्षयिष्यति॥ तद्वचनमारामिकेण श्रुतं श्रुत्वा चैवं चित्तयामास। कस्मायेतद्दत्तधावनं दद्यां येन मे महान्संमानः स्यादिति॥ तस्यैतदभवत्। अयं बुद्धो भगवान्सचराचरे लोके जङ्गमं पुण्यक्षेत्रमबन्ध्यमहाफलं च। यन्न्वहमिदं बुद्धाय भगवते दद्यामिति॥



अथ स आरामिको दत्तकाष्ठमादाय येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्तस्थितः स आरामिको भगवत्तमिदमवोचत्। इदं भगवन्दत्तकाष्ठं प्रतिगृह्यतां ममात्तिकादनुकम्पामुपादायेति॥ अथ भगवानारामिकस्यानुग्रहार्थं गजभुजसदृशं सुवर्णवर्णं बाहुमभिप्रसार्य गृहीतवान्गृहीत्वा <भक्षितवान्भक्षयित्वा> चैनमारामिकस्याग्रतो विसर्जितवान्। विसर्ज्य तद्दत्तकाष्ठं पृथिव्यां <निखातवान्>। निखातमात्रेमव च तच्छाखापत्रपुष्पफलसमृद्धो महान्यग्रोधः परिमण्डलस्तत्रैव क्षणे निर्वृत्तो यस्य च्छायायां निषद्य भगवतानेकेषां देवमनुष्याणां धर्मो देशितः॥ ततो ऽनाथपिण्डदेन गृहपतिना भगवान्शतरसेनाहारेण प्रतिपादितः॥



अथ स आरामिको भगवडुपस्थानात्प्रतिहार्याच्चावर्जितमना मूलनिकृत्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कुर्यामिति॥



ततो भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मित्ते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षययित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति ऊष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेनारामिकेण ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्दारामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रयोदश कल्पान्विनिपातं न गमिष्यति पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे निर्मलो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project