Digital Sanskrit Buddhist Canon

दिव्यभोजनम् २०

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Divyabhojanam 20
दिव्यभोजनम् २०



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां <स>श्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे। तत्रान्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवण<धन>प्रतिस्पर्धी तीर्थ्याभिप्रसन्नश्च। स आयुष्मता महामौग्दल्यायनेनावर्जितः शासने चावतारितो भगवत्यत्यर्थमभिप्रसन्नः। स च गृहपतिरुदाराधिमुक्तः। तेनायुष्मान्महामौद्गल्यायन उक्तः। सहायो मे भव इच्छामि भगवतः पूजां कर्तुमिति। अधिवासयत्यायुष्मान्महामौद्गल्यायनस्तस्य गृहपतेस्तूष्णीभावेन॥ अथायुष्मान्महामौद्गल्यायनस्तं गृहपतिमादाय येन भगवांस्तेनोपसंक्रात्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्तनिषण आयुष्मान्महामौद्गल्यायनो भगवत्तमिदमवोचत्। अयं भदत्त गृहपतिराकाङ्क्षति भगवत्तं सश्रावकसङ्घं भोजयितुं तदस्य भगवानधिवासयेदनुकम्पामुपादायेति। अधिवासयति भगवांस्तस्य गृहपतेस्तूष्णीभावेन॥ अथ स गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा शतरसमाहारं समुदानपति पुष्पगन्धमाल्यविलेपनानि च। आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो ऽधीष्टः क्रियतामस्य गृहपतेरुपसंहार इति॥ ततः शक्रेण देवेन्द्रेण वेणुवनं नन्दनवनमभिनिर्मितमैरावणसुप्रतिष्ठितसदृशानि च नागसहस्रा<णि> *********************************************** वालव्यजनेन वीजयत्ति सुप्रियपञ्चशिखतुम्बुरुप्रभृतीनि चानेकानि गन्धर्वसहस्राण्युपनीतानि ये विचित्रैर्वाद्यविशेषैर्वाद्यं कुर्वत्ति दिव्यञ्चसुधाभोजनम्॥ ततः स गृहपतिर्दिव्यमानुषैरुपकरणैर्भगवत्तमुपस्थाय सर्वाङ्गेन भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धो ऽनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति।



अथ भगवांस्तस्य गृहपतेर्हेतुपरम्परां कर्मपरम्पराञ्च ज्ञात्वा स्मितं प्राविःकार्षीत्॥ धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं क<र्म>क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलान<बृहान>तपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभघ्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यत्ति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः <पृष्ठतः> समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवतं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्क्रसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगत्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन गृहपतिना ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एषानन्द गृहपतिरनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसादः॥ एतच्च प्रकरणं राजा बिम्बिसारो मागधकाश्च परिचारकाः श्रुत्वा परं विस्मयमापन्नाः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भगवन्यावदनेन गृहपतिना भगवान्सश्रावकसङ्घो दिव्यमानुषीभिरृद्धिभिरभ्यर्चित इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि वाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अश्रौषीद्राजा क्षत्रियो मूर्ध्राभिषिक्तः पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्नस्माकं राजधानीमनुप्राप्त इति श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन समन्वागतो येन पूर्णः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य पूर्णस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तं पूर्णः सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापपति॥ अथ राजा क्षत्रियो मूर्ध्राभिषिक्तः पुर्णं सम्यक्संबुद्ध सश्रावकसङ्घं त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपनिमन्त्रितवान्। अधिवासितं च पूर्णेन सम्यक्संबुद्धेन राजस्तूष्णीभावेन। अथ राजा क्षत्रियो मूर्ध्राभिषिक्तः पूर्णस्य सम्यक्संबुद्धस्य तूष्णीभावेनाधिवासनां विदित्वा त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थाय भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान्यत्रानेकैः प्राणिशतसहस्रैर्महाप्रसादो लब्धः। तद्धेतु तत्प्रत्ययं च ते परिनिर्वृताः॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया पूर्णस्य सम्यक्संबुद्धस्य तादृशी पूजा कृता तेन मे संसारे ऽनत्तं मुखमनुभूतं तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च ईदृशी पूजा कृता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं <वो> भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project