Digital Sanskrit Buddhist Canon

काशिकवस्त्रम् १९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kāśikavastram 19
काशिकवस्त्रम् १९



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्का<रा>णां सश्रावकसङ्घो राजगृहे विहरति वेणुवने करन्दकनिवाये॥ यदा राज्ञा बिम्बिसारेणानेकप्राणिशतसहस्रपरिवारेण सत्यानि दृष्टानि तदा तेन कृतप्रत्युपकारसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं गृहविस्तरसंदर्शनार्थं बुद्धोत्पादबहुमानसंजननार्थं च भगवान्सश्रावकसङ्घो राजकुले भक्तेनोपनिमन्त्रितः मागधकानां च पौराणामाज्ञा दत्ता भगवतो नगरप्रवेशे पुष्पगन्धमाल्यविलेपनैः पूजा कर्तव्या सर्वं च राजगृहं नगरमपगतपाषाणाशर्करकठल्लं व्यवस्थापयितव्यं नानापुष्पावकीर्णमुच्छ्रितध्वजपताकं यावच्च वेणुवनं यावच्च राजगृहमत्रात्तरा सर्वो मार्गो विचित्रैर्वस्त्रैराच्छादयितव्य इति॥ अमात्यैश्च सर्वमनुष्ठितम्॥ ततो राजा बिम्बिसारः स्वयमेव भगवतो मूर्ध्रि शतशलाकं छत्रं धारयति परिशेषाः पौरा भिक्षुसहस्रस्य॥



अथ भगवान्दात्तो दात्तपरिवारः शात्तः शात्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्रिगणपरिवृतो हंस इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः स्वश्व इव तुरग<गण>परिवृतः शूर इव योधगणपरिवृतो देशिक इवाधगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विनूढ इव कुम्भाण्डगणपरिवृतो विनूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मा इव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदात्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो ऽनेकैरावेणिकैर्बुद्धधर्मैः परिवृतो भगवांस्तत्पुरं प्रविशति॥



यदा च भगवता इन्द्रकीले पादो न्यस्तः तदेयं महापृथिवी षड्विकारं प्रकम्पिता॥ भगवतः पुरप्रवेशे एवंनूपाण्यद्भुतानि भवत्त्यन्यानि च तद्यथा संक्षिप्तानि विशालीभवत्ति हस्तिनः क्रोशत्ति अश्वाश्च हेषत्ते ऋषभा नर्दत्ति गृहगतानि विविधवाद्यभाण्डानि स्वयं नदत्ति अन्धाश्चक्षूंषि प्रतिलभत्ते बधिराः श्रोत्रं मूकाः प्रव्याहरणासमर्था भवत्ति परिशिष्टेन्द्रियविकला इन्द्रियाणि <परि>पूर्णानि प्रतिलभत्ते मद्यमदाक्षिप्ता विमदीभवत्ति विषपीता निर्विषीभवत्ति अन्योन्यवैरिणो मैत्रीं प्रतिलभत्ते गुर्विण्य स्वस्तिना प्रजायत्ते बन्धनबद्धा विमुच्यत्ते अधना धनानि प्रतिलभत्ते आतरिक्षाश्च देवासुरगरुडकिन्नरमहोरगा दिव्यं पुष्पमुत्सृजत्ति॥



अथ भगवानेवंविधया विभूत्या राजकुलं प्रवेष्टुमारब्धो राजा च बिम्बिसारः स्वयमेव बहिर्द्धारशालस्थो गोशीर्षचन्दनोदकेन पाद्यं गृहीत्वा भगवतः पादौ भिक्षुसङ्घस्य च प्रक्षालयति। सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शतरसेनाहारेण प्रतिपादयामास भुक्तवत्तं काशिकवस्त्रैराच्छादितवान्। तद्दैतुकं चावर्जिता मागधकाः पौराः॥



ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कुत्रेमानि भगवता कुशलमूलानि कृतानि यतो भगवत एवंविधा पूजा भिक्षुसङ्घस्य चेति॥ भगवानाह॥ तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि क्षेमङ्करो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। अश्रौषीद्राजा क्षत्रियो मूर्ध्नाभिषिक्तः क्षेमङ्करः सम्यक्संबुद्धो जनपदचारिकां चरन्नस्माकं राजधानीमनुप्राप्त इति श्रुत्वा च महत्या राजर्द्या महता राजानुभावेन समन्वागतो येन भगवान्क्षेमङ्करः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य क्षेमङ्करस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते निषणः। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्नाभिषिक्तं क्षेमङ्करः सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापयति॥ अथ स राजा लब्धप्रसादः क्षेमङ्करं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेनाहारेण प्रतिपादयामास शतसाहस्रेण च वस्त्रेणाच्छादयामास परिनिर्वृतस्य च समत्तयोजनं स्तूपं कारितवान्क्रोशमुच्चत्वेन॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया क्षेमङ्करस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता तेन मया संसारे ऽनत्तं सुखमनुभूतमिदानीं तेनैव हेतुना राज्ञा बिम्बिसारेणापि तथागतस्य मे एवंविधा पूजा कृता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project