Digital Sanskrit Buddhist Canon

स्तम्भ इति १२

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Stambha iti 12
स्तम्भ इति १२



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रययभैषज्यपरिष्काराणां सश्रावकसङ्घः कौरव्येषु जनपदचारिकां चरन्कौरव्यं नगरमनुप्राप्तः। स च कौरव्यो जनकायो बुद्धवैनेय उदारचित्तः प्रदानरुचिश्च॥ ततो भगवत एतदभवत्। यन्न्वहं शक्रं देवेन्द्रं मरुद्रणपरिवृतमाह्वयेयं यद्दर्शनादेषां कुशलमूलविवृद्धिः स्यादिति। ततो भगवांल्लौकिकं चित्तमुत्पादयति। अहो बत शक्रो देवेन्द्रो मरुद्रणसहायो गोशीर्षचन्दनमयं स्तम्भमादाय गच्छेदिति॥ सहचित्तोत्पादाच्छक्रो देवेन्द्रो मरुद्रणपरिवृत आगतो यत्र विश्वकर्मा चत्वारश्च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृता गोशीर्षचन्दनस्तम्भमादाय। हाहाकारकिलकिलाप्रक्ष्वेडोच्चैर्नादं कुर्वाणा भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादमभिसंस्कृतवत्तः॥ ततस्तस्मिन्प्रासादे शक्रेण देवेन्द्रेण भगवान्सश्रावकसङ्घो दिव्येनाहारेण दिव्येन शयनासनेन दिव्यैर्गन्धमाल्यपुष्पैः सत्कृतो गुरुकृतो मानितः पूजितः॥



अथ कौरव्यो जनकायस्तां दिव्यां विभूषिकां दृष्ट्वा परं विस्मयमापन्न इमां चित्तामापेदे। नूनं बुद्धो भगवांल्लोके ऽय्यो यत्तु नाम सेन्द्रैर्देवैः पूज्यत इत्यावर्जितमना भगवत्तमुपसंक्रात्तः। भगवतः पादाभिवन्दनं कृत्वैकात्ते न्यषीदत्। एकात्तनिषणः कौरव्यो जनकायस्तस्मिन्प्रासादे ऽत्यर्थं प्रसादमुत्पादयति॥



ततो भगवांस्तत्प्रासादमत्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशीं धर्मदेशनां कृतवान्यां श्रुत्वानेकैः कौरव्यनिवासिभिर्मनुष्यैः स्त्रोतस्रापत्तिफलान्यनुप्राप्तानि कैश्चित्सकृदागामिफलानि कैश्चिदनागामिफलानि कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकायां बोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ। सर्वा च सा पर्षद्बुद्धनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थापिता॥



ततस्ते भिक्षवो भगवतो दिव्यपूजादर्शनादावर्जितमनसो बुद्धं भगवत्तं पप्रच्छुः। कुत्रेमानि भगवता कुशलमूलानि कृतानीति॥ भगवानाह॥ तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु <कर्माणि> कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि येन तथागतस्यैवंविधा पूजा। इच्छथ भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मा नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विधावरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ ब्रह्मा सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अश्रौषीद्राजा क्षत्रियो मूर्ध्नाभिषिक्तो ब्रह्मा सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो जनपदचारिकां चरन्नस्माकं विजितमनुप्राप्त इति। श्रुत्वा च पुनर्महत्या राजर्द्या महता राजानुभावेन येन भगवान्ब्रह्मा सम्यक्संबुद्धस्तेनोपसंक्रात्त उपसंक्रम्य ब्रह्मणः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्तेन्यषीदत्। एकात्तनिषणं राजानं क्षत्रियं मूर्ध्नाभिषिक्तं भगवान्बोधिकरकैर्धर्मैः समादापयति॥ अथ स राजा लब्धप्रसाद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमिदमवोचत्। अधिवासयतु मे भगवानस्यां राजधान्यां त्रैमास्यवासायाहं भगवत्तं सश्रावकसङ्घमुपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति॥ अधिवासयति ब्रह्मा सम्यक्संबुद्धो राज्ञस्तूष्णीभावने॥ अथ स राजा मूर्ध्राभिषिक्तो भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादं कारयामास। स तं विचित्रैर्वस्त्रालङ्कारैरलङ्कृतं नानापुष्पावकीर्णं गन्धघटिकाधूपितं भगवतः सश्रावकसङ्घस्य निर्यात्य त्रैमास्यं प्रणीतेनाहारेण संतर्प्य विविधैर्वस्तविशेषैराच्छाद्यानुत्तरायां सम्यक्संबोधौ प्रणिधिं चकार॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा क्षत्रियो मूर्ध्नाभिषिक्तो बभूवाहं सः। यन्मया ब्रह्मणः सम्यक्संबुद्धस्यैवंविधा पूजा कृता तस्य मे कर्मणो विपाकेनानत्तसंसारे महत्सुखमनुभूतमिदानीमप्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्यैवंविधा पूजा। तस्मात्तर्हि भिक्षव एवं <शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षव> शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project