Digital Sanskrit Buddhist Canon

राजेति १०

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Rājeti 10
राजेति १०



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेन राजा प्रसेनजित्कौशलो राजा चाजातशत्रुरुभावप्येतौ परस्परं विरुद्धौ बभूवतुः॥ अथ राजा ऽजातशत्रुश्चतुरङ्गबलकायं संनह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं राजानं प्रसेनजितं कौशलमभिनिर्यातो युद्धाय॥



अश्रौषीद्राजा प्रसेनजित्कौशलो राजा अजातशत्रुश्चतुरङ्गबलकायं संनह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं च * * * * <अभिनिर्यातो युद्धायेति श्रुत्वा च चतुरङ्गबलकायं संनह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं> राजानमजातशत्रुं प्रत्यभिनिर्यातो युद्धाय॥ अथ राज्ञा ऽजातशत्रुणा राज्ञः प्रसेनजितः कौशलस्य सर्वो हस्तिकायः पर्यस्तो ऽश्वकायो रथकायः पत्तिकायः पर्यस्तः। राजा प्रसेनजित्कौशलो जितो भीतो भग्रः पराजितः परापृष्ठीकृत एकरथेन श्रावस्तीं प्रविष्टः। एवं यावत्रिरपि॥



अथ राजा प्रसेनजित्कौशलः शोकागारं प्रविश्यकरे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। तत्र च श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन श्रुतं यथा राजा प्रसेनजित्कौशलो जितो भग्नः परापृष्ठीकृत एकरथेनेह प्रविष्ट इति श्रुत्वा च पुनर्येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रात्त उपसंक्रम्य राजा<नं> प्रसेनजितं कौशलं जयेनायुषा च वर्धयित्वोवाच। किमर्थं देव शोकः क्रियते ऽहं देवस्य तावत्सुवर्णमनुप्रयच्छामि येन देवः पुनरपि यथेष्टप्रचारणं करिष्यतीति। तेन तस्य महान्सुवर्णराशिः कृतो यत्रोपविष्टः पुरुष उत्थितं पुरुषं न पश्यति उत्थितो वा उपविष्टम्॥



अथ राज्ञा प्रसेनजित्कौशल्येन स्वविषये चरपुरुषाः समत्तत उत्सृष्टाः शृणुत जनप्रवादानिति। यावज्जेतवने द्वौ मल्लावन्योन्यं संजल्पं कुरुतः। अस्ति केसरी नाम संग्रामः तत्र ये कातराः पुरुषास्ते संग्रामशिरसि स्थाप्यत्ते ये मध्यास्ते मध्ये ये उत्कृष्टाः शूरपुरुषास्ते पृष्ठत इति॥ ततस्ते राज्ञे इति वेदितवत्तः श्रुत्वा <च> राजा प्रसेनजित्कौशलस्तथा चतुरङ्गबलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं च राजानमजातशत्रुभिनिर्यातो युद्धाय॥ ततो राजा प्रसेनजिता कौशलेन राज्ञो ऽजातशत्रोर्वैदेहीपुत्रस्य सर्वो हस्तिकायः पर्यस्तो ऽश्वकायो रथकायः पत्तिकायः पर्यस्तो राजानमप्यजातशत्रुं वैदेहीपुत्रं जितं भीतभग्नपराजितं परापृष्ठीकृतं जीवग्राहं गृहीत्वा एकरथे ऽभिरोप्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते निषीदत्ति। एकात्तनिषण्णो राजा प्रसेनजित्कौशलो भगवत्तमित्यवोचत्। अयं हि भदत्त राजा अजातशत्रुदीर्घरात्रमवैरस्य मे वैरी अमपत्रस्य सपत्नो न चेच्छाम्येनं जीविताद्यपरोपयितुं यस्माद्वयस्यपुत्रो ऽयं भवति मुञ्चाम्येनमिति॥ मुञ्च महाराजेत्युक्त्वा भगवांस्तस्यां वेलायां गाथां भाषते।



जयो वैरं प्रसवति दुःखं शेते पराजितः।

<उपशात्तः> सुखं शेते हित्वा जयपराजयम्॥



अथ राज्ञः प्रसेनजितः कौश<ल>स्यैतदभवत्। यन्मया राज्यं प्रतिलब्धं तदस्य श्रेष्ठिनः प्रसादात्। यन्न्वहमेनं वरेण प्रवारयेयमिति॥ अथ राजा प्रसेनजित्कौशलस्तं श्रेष्ठिनं वरेण प्रवारयति॥ स कथयति। आकाङ्क्षामि वरं सप्ताहं मे यथाभिरुचितं राज्यमनुप्रयच्छतेति॥ ततो राजा सर्वविजिते घण्ठावघोषणं कारितं दत्तं मे श्रेष्ठिने सप्ताहमेकं राज्यमिति॥ यावत्तेन श्रेष्ठिना बुद्धप्रमुखो भिक्षुसङ्घस्सप्ताहं भक्तेनोपनिमन्त्रितः राजा च प्रसेनजित्सपरिवारः यावत्तश्च काशिकोशलेषु जनकायाः प्रतिवसत्ति तेषां दूतसंप्रेषणं कृतम्। सप्ताहं यूयं सकला यथेष्टचारिणः सुखस्पर्शं विहरत किंचिदागत्य बुद्धं शरणं गच्छत धर्मं च भिक्षुसङ्घं च मामकञ्च भोजनं भुञ्जानास्तथागतं पर्युपासध्वमिति॥ तेन सप्ताहं भगवान्सश्रावकसङ्घो महता सत्कारेणा सत्कृतः बहूनि च प्राणिशतसहस्राणि कुशले नियोजितानि॥ सप्ताहस्यात्ययेन भगवतः पादयोर्निपत्य चेतनां पुष्णाति प्रणिधिं <च> चकार। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूपासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥



अथ भगवांस्तस्य श्रेष्ठिनो हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि <र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतिभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्य<न्य>त्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मित्ते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्रयस्त्रिंशान्यामांस्तुषितानिर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यातं करिष्यति इति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।



नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्ववा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरु<त्तमाभि>-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यसि त्वमानन्दानेन श्रेष्ठिना तथागतस्य सश्रावकसङ्घस्यैवंविधं सत्कारं कृतं महाजनकायं च कुशले नियुक्तम्॥ एवं भदत्त॥ एषानन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्याभयप्रदो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project