Digital Sanskrit Buddhist Canon

१२.हारीतिकादमनावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 12 hārītikādamanāvadānam
१२ हारीतिकादमनावदानम्।

दुःखं नुदन्ति सुखसंपदमादिशन्ति
संजीवयन्ति जनताम् तिमिरं हरन्ति।
सन्मानसस्य कलयन्ति विकासहासं
सन्तः सुधार्द्रवदनाः शशिन कराश्च॥१॥

बिम्बिसारः क्षितेः सारे पुरे राजगृहाभिधे।
सारः समस्तभूपानामभूद्भूमिपुरंदरः॥ २॥

क्षमाधारे भुजे यस्य क्षमाधारे च चेतसि।
बाह्यः समस्तचित्तानामशु न्यस्तकरो जनः॥३॥

कुर्वतस्त्यागशौर्याभ्यामाशायाः परिपूरणम्।
पाणौ विमुक्तरत्नौघे सुबद्धोऽभूदसिग्रहः॥ ४॥

कदाचिदभवत्तस्य विप्लवो नगरे गुरुः।
नवाभ्युदयसंजातदर्पकाल इवाकुलः॥ ५॥

तमास्थानसमासीनं जनचिन्ताकृतक्षणम्।
व्यजिज्ञिपत सौराजं प्रजानां जनकोपमम्॥ ६॥

देव दिव्यप्रभावस्य नियतः शासनेन ते।
जनह् सदा समुद्रोऽयं मर्यादां नातिवर्तते॥ ७॥

येनास्य कृतवृत्तस्य सन्मार्गेण प्रसर्पतः।
उपसर्गोद्गमः कस्मादकस्मादयमागतः॥ ८॥

स्वधर्मसंवृत्तेन हि कर्मणा शर्मणा नृणाम्।
सुनृपे न च गुह्यानामापतन्ति विपत्तयः॥ ९॥

ह्रियन्ते नः प्रसूतीनां गृहिणीनांगृहे कया।
अपत्यानि फलानीव सत्क्रियाणामसंयमात्॥ १०॥

किंतु भूतान्न विद्मस्तान् मायाम् चापि महीपते।
यत्प्रभावेण नीयन्ते कुलानि निरपत्यताम्॥११॥

इति तेषां गिरा भूभृदभूत्संक्रान्ततद्व्यथः।
परं दुःखं विशत्यन्तः सतां केदारवारिवत्॥ १२॥

सर्वाङ्गव्यापिना तेन जनदुःखेन भूयसा।
विषेणेवावृतः सोऽभूदुद्भ्रान्तहृदयः क्षणम्॥ १३॥

सोऽब्रवीत् किं करोम्यत्राभुजाधीने विपौरूषे।
कथं नाम प्रवर्तन्ते दुर्लक्ष्येषु प्रतिक्रियाः॥१४॥

दिनमेकं व्रजन्त्वद्य भवन्तो निजमास्पदम्।
सव्रतश्चिन्तयाम्येव रक्षां वः प्रस्वक्षये॥ १५॥

इति राजवचः श्रुत्वा हृष्टाः पौरमहत्तमाः।
जगदुस्तं समावर्ज्य पूजाव्यञ्जनमज्ण्जलिम्॥ १६॥

देव त्वदवधानेन प्रणयाकर्णनेन च।
त्वयि विन्यस्तचिन्तानां नास्माकमधुना श्रमः॥ १७॥

अनुद्धतमुदारं च् अत्वत्प्रसादावलोकनम्।
इदमेव जनस्यास्य जीवितानीव वर्षति॥ १८॥

किं पुनः प्रियमेतत्ते पीयूषसदृशं वचः।
तापापहं मृहु स्वादु किं किं न विदधाति नः॥ १९॥

कृती कृतज्ञः कारुण्यनिधिः सुलभदर्शनः।
लभ्यते भाग्यभोग्येन सौजन्यसरलः प्रभु॥ २०॥

पीयूषादतिपेशलः परिचयः श्राव्यं वचः पञ्चम-
माचार- शरदिन्दुवृन्दमहसोऽस्यानन्दसंदोहदः।
सच्चित्ते वसतां सताम् किमपरं पुष्पान्मनह् कोमलं
सौजन्यं हरिचन्दनादपि परं संतापनिर्वापणम्॥ २१॥

इत्युक्त्वा प्रययुः पौरास्तं प्रणम्य प्रसादिनम्।
किरन्तस्तद्गुणोदारामाशाकुसुममालिकाम्॥ २२॥

राजापि नगरे कृत्वा भूतपूजाविधिक्रमम्।
शान्तिस्वस्तिकसंभारं चकार नियतव्रतः॥ २३॥

यक्षी हारीतिका नाम बालकान् पुरवासिनी।
हरतीति स शुश्राव पुरदेवतयोदितम्॥२४॥

ततः पौरजनैः सार्धं सामात्यः पृथीवीपतिः।
कलन्दकनिवासाख्ये स्थितं वेणुवनाश्रमे॥२५॥

भगवन्तं ययौ द्रष्टुं सुगतं दोषशान्तये।
सर्वदुःखज्वरायासजुषामकटुकौषधम्॥ २६॥

तं दृष्ट्वा नृपतिर्दूरात्प्रणम्य प्रियदर्शनम्।
उपविश्याग्रतस्तस्मै पौरदुःखं न्यवेदयत्॥ २७॥

भगवानपि विज्ञाय पौराणां संततिक्षयम्।
चिन्तानिश्चञ्चलः क्षिप्रमुवाच करुणानिधिः॥ २८॥

स विसृज्य जगद्बन्धुः सनृपं पौरमण्डलम्।
पात्रचीवरमादाय ययौ यक्षीनिकेतनम्॥ २९॥

तया विरहितं प्राप्य तद्गृहं भगवान् जिनः।
प्रियंकराख्यं तत्पुत्रं निनायैकमदर्शनम्॥ ३०॥

याते भगवति क्षिप्रं यक्षी स्वगृहमागता।
प्रभूतपुत्रा नापश्यत् प्रियं पुत्रं प्रियंकरम्॥ ३१॥

तमीक्षमाणां विवशा हृतवत्सेव धेनुका।
बभ्राम संभ्रमोद्भ्रान्ता सा जनेषु चा॥ ३२॥

हा प्रियंकर हा पुत्र क्क नु पश्यामि ते मुखम्।
इति प्रलापिनी तारं निःशेषाः सा ययौ दिशः॥ ३३॥

सा विचित्याशु सर्वाशा निराशा पुत्रदर्शने।
क्रोशन्ती पर्वतद्वीपं समुद्रवलयम् ययौ॥३४॥

मर्त्यभूमिमतिक्रम्य घोरेषु नगरेषु सा।
स्वर्गोद्देशेष्व शेषेषु विमानोद्यानशालिषु॥ ३५॥

श्रान्ता क्कचिन्न विश्रान्ता यक्षिणी प्रणिघातिनी।
पुत्रमन्विष्य नापश्यल्लोकपालपुरेषु च॥ ३६॥

कुबेरस्याथ वचसा गत्वा च सुगताश्रमम्।
भगवन्तं वियोगार्ता शरण्यं शरणं ययौ॥ ३७॥

तया तद्दुःखवृत्तान्तं सम् निशम्य निवेदितम्।
तामवोचत शोचन्तीं किंचित् स्मितसिताधरः॥ ३८॥

हारीति तव पुत्राणां सन्ति पञ्चशतान्यहो।
इति तेनोक्तमाकर्ण्य यक्षी दुःखक्षतावदत्॥ ३९॥

पुत्रलक्षेऽपि भगवन् सह्या नैकसुतक्षतिः।
पुत्रात् प्रियतरं नान्यत्किं दुःखं तत्क्षयात्परम्॥ ४०॥

पुत्रवानेव जानाति पुत्रस्नेहविषव्यथाम्।
सहजैव सुतप्रीतिरकारणनिबन्धना॥ ४१॥

* * * *
मलिनो विकलः क्षीणः कस्य नेन्दुसमः सुतः॥ ४२॥

इति यक्षवधूवाक्यं श्रुत्वा वात्सल्यविह्वलम्।
भूतानुकम्पी भगवान् सस्मितस्तामभाषत॥ ४३॥

शोकोऽयं बह्य्पुत्राया यद्येकविरहे तव।
हृते त्वयैकवत्सानां पुत्रैके कीदृशी व्यथा॥ ४४॥

त्वं प्रविश्य सदा गेहं स्त्रीणां पुत्रमलक्षितां।
अश्नासि पुत्रमातापि व्याघ्रीव मृगशावकान्॥ ४५॥

येन येन स्वदेहस्य दुःखं यात्युपभोगताम्।
न तत्परस्य कुर्वीत समानोऽनुभवः शुचाम्॥ ४६॥

त्वं बुद्धधर्मसंघानां त्रीणि शिक्षापदानि चेत्।
गृह्णासि हिंसाविमुखी तत्प्राप्नोषि प्रियं सुतम्॥ ४७॥

इत्युक्ता सा भगवता प्राप्तशिक्षापदा ततः।
हिंसाविरामात् तं गत्वा पुत्रं प्राप प्रियंकरम्॥ ४८॥

तस्याः प्राग्जन्मवृत्तान्तं तस्याः कर्मफलान्वयम्।
भिक्षुभिर्भगवान् पृष्टस्तद्वृत्तान्तमभाषतः॥ ४९॥

पुरास्मिन्नेव नगरे पौराह् केऽप्युपभोगिनः।
पर्वतोद्यानमालायां विजह्रुर्नर्तनादिना॥ ५०॥

अथ तेन पथा कापि गोपकान्ता घनस्तनी।
मथितं पण्यमादाय हरिणाक्षी समाययौ॥ ५१॥

गर्भभारालसगतिः प्रत्युप्ता गजगामिनी।
सा शनैरुपसर्पन्ती सस्पृहं तान् व्यलोकयत्॥ ५२॥

तस्या वनमृगीमुग्धैरवदग्धा विलोकनैः।
असंवृत्ता विलासार्द्रैस्तेऽपि सोत्कण्ठतां ययुः॥ ५३॥

सा तैर्निमन्त्रिता तत्र मदनक्षीबताम् गता।
हारितं सहसा शीलं न विवेद प्रमादिनी॥ ५४॥

ततस्तेषू प्रयातेषु तदा तस्या रतिश्रमात्।
पपात सह धैर्येण गर्भ कोपादिवारुणः॥ ५५॥

अत्रान्तरे समायातं तत्पुण्यैस्तेन वर्तमना।
प्रत्येकबुद्धं साद्राक्षीत्कायचित्तप्रसादनम्॥ ५६॥

सास्मै मथितमूल्याप्तमाम्राणां शतपञ्चकम्।
दूरात्प्रणामविनता मनसैव न्यवेदत्॥ ५७॥

ततः पुण्यर्द्धिमत्यस्मिन् जाता यक्षकुलेऽधुना।
जातमाम्रार्पणेनास्याः पुत्राणां शतपञ्चकम्॥ ५८॥

हिंसावती पापत्यागात् शीलविस्मरणात्परम्।
प्रत्येकबुद्धप्रणतेः प्राप्तशिक्षापदाद्य सा॥ ५९॥

इति विविधविपाकं कर्मतन्त्रं विचित्रं
किमपिस कथयित्वा तत्र यक्षाङ्गनायाः।
कलितकुशलसेतुः संभवाब्धौ जनाना -
मकृत सुकृतचित्तं सर्वलोकस्य शास्ता॥ ६०॥

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
हारीतिकादमनावदानं नाम द्वादशः पल्लवः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project